Ṛk 5.44.3
Saṃhitā
अत्यं॑ ह॒विः स॑चते॒ सच्च॒ धातु॒ चारि॑ष्टगातुः॒ स होता॑ सहो॒भरिः॑ ।
प्र॒सर्स्रा॑णो॒ अनु॑ ब॒र्हिर्वृषा॒ शिशु॒र्मध्ये॒ युवा॒जरो॑ वि॒स्रुहा॑ हि॒तः ॥
अत्यं हविः सचते सच् च धातु चारिष्टगातुः स होता सहोभरिः |
प्रसर्स्राणो अनु बर्हिर् वृषा शिशुर् मध्ये युवाजरो विस्रुहा हितः ||
átyam havíḥ sacate sácca dhā́tu cā́riṣṭagātuḥ sá hótā sahobháriḥ ǀ
prasársrāṇo ánu barhírvṛ́ṣā śíśurmádhye yúvājáro visrúhā hitáḥ ǁ
atyaṃ haviḥ sacate sac ca dhātu cāriṣṭagātuḥ sa hotā sahobhariḥ |
prasarsrāṇo anu barhir vṛṣā śiśur madhye yuvājaro visruhā hitaḥ ||
Padapāṭha
अत्य॑म् । ह॒विः । स॒च॒ते॒ । सत् । च॒ । धातु॑ । च॒ । अरि॑ष्टऽगातुः । सः । होता॑ । स॒हः॒ऽभरिः॑ ।
प्र॒ऽसर्स्रा॑णः । अनु॑ । ब॒र्हिः । वृषा॑ । शिशुः॑ । मध्ये॑ । युवा॑ । अ॒जरः॑ । वि॒ऽस्रुहा॑ । हि॒तः ॥
अत्यम् । हविः । सचते । सत् । च । धातु । च । अरिष्टऽगातुः । सः । होता । सहःऽभरिः ।
प्रऽसर्स्राणः । अनु । बर्हिः । वृषा । शिशुः । मध्ये । युवा । अजरः । विऽस्रुहा । हितः ॥
átyam ǀ havíḥ ǀ sacate ǀ sát ǀ ca ǀ dhā́tu ǀ ca ǀ áriṣṭa-gātuḥ ǀ sáḥ ǀ hótā ǀ sahaḥ-bháriḥ ǀ
pra-sársrāṇaḥ ǀ ánu ǀ barhíḥ ǀ vṛ́ṣā ǀ śíśuḥ ǀ mádhye ǀ yúvā ǀ ajáraḥ ǀ vi-srúhā ǀ hitáḥ ǁ
atyam ǀ haviḥ ǀ sacate ǀ sat ǀ ca ǀ dhātu ǀ ca ǀ ariṣṭa-gātuḥ ǀ saḥ ǀ hotā ǀ sahaḥ-bhariḥ ǀ
pra-sarsrāṇaḥ ǀ anu ǀ barhiḥ ǀ vṛṣā ǀ śiśuḥ ǀ madhye ǀ yuvā ǀ ajaraḥ ǀ vi-sruhā ǀ hitaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.044.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.2.23.03
- Maṇḍala · Anuvāka · Ṛk
- 05.03.115
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Avatsāra Kāśyapa And Other
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.