Ṛk 5.73.1
Saṃhitā
यद॒द्य स्थः प॑रा॒वति॒ यद॑र्वा॒वत्य॑श्विना ।
यद्वा॑ पु॒रू पु॑रुभुजा॒ यदं॒तरि॑क्ष॒ आ ग॑तं ॥
यद् अद्य स्थः परावति यद् अर्वावत्य् अश्विना |
यद् वा पुरू पुरुभुजा यद् अन्तरिक्ष आ गतम् ||
yádadyá stháḥ parāváti yádarvāvátyaśvinā ǀ
yádvā purū́ purubhujā yádantárikṣa ā́ gatam ǁ
yad adya sthaḥ parāvati yad arvāvaty aśvinā |
yad vā purū purubhujā yad antarikṣa ā gatam ||
Padapāṭha
यत् । अ॒द्य । स्थः । प॒रा॒ऽवति॑ । यत् । अ॒र्वा॒ऽवति॑ । अ॒श्वि॒ना॒ ।
यत् । वा॒ । पु॒रु । पु॒रु॒ऽभु॒जा॒ । यत् । अ॒न्तरि॑क्षे । आ । ग॒त॒म् ॥
यत् । अद्य । स्थः । पराऽवति । यत् । अर्वाऽवति । अश्विना ।
यत् । वा । पुरु । पुरुऽभुजा । यत् । अन्तरिक्षे । आ । गतम् ॥
yát ǀ adyá ǀ stháḥ ǀ parā-váti ǀ yát ǀ arvā-váti ǀ aśvinā ǀ
yát ǀ vā ǀ purú ǀ puru-bhujā ǀ yát ǀ antárikṣe ǀ ā́ ǀ gatam ǁ
yat ǀ adya ǀ sthaḥ ǀ parā-vati ǀ yat ǀ arvā-vati ǀ aśvinā ǀ
yat ǀ vā ǀ puru ǀ puru-bhujā ǀ yat ǀ antarikṣe ǀ ā ǀ gatam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.073.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.4.11.01
- Maṇḍala · Anuvāka · Ṛk
- 05.06.001
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Paura Ātreya
- Chandas छन्दस्
- Anuṣṭubh
- Svara स्वरः
- ऋषभः
Text and interpretations from the Ṛgveda database of theveda.org.in.