Ṛk 5.32.12
Saṃhitā
ए॒वा हि त्वामृ॑तु॒था या॒तयं॑तं म॒घा विप्रे॑भ्यो॒ दद॑तं शृ॒णोमि॑ ।
किं ते॑ ब्र॒ह्माणो॑ गृहते॒ सखा॑यो॒ ये त्वा॒या नि॑द॒धुः काम॑मिंद्र ॥
एवा हि त्वाम् ऋतुथा यातयन्तम् मघा विप्रेभ्यो ददतं शृणोमि |
किं ते ब्रह्माणो गृहते सखायो ये त्वाया निदधुः कामम् इन्द्र ||
evā́ hí tvā́mṛtuthā́ yātáyantam maghā́ víprebhyo dádatam śṛṇómi ǀ
kím te brahmā́ṇo gṛhate sákhāyo yé tvāyā́ nidadhúḥ kā́mamindra ǁ
evā hi tvām ṛtuthā yātayantam maghā viprebhyo dadataṃ śṛṇomi |
kiṃ te brahmāṇo gṛhate sakhāyo ye tvāyā nidadhuḥ kāmam indra ||
Padapāṭha
ए॒व । हि । त्वाम् । ऋ॒तु॒ऽथा । या॒तय॑न्तम् । म॒घा । विप्रे॑भ्यः । दद॑तम् । शृ॒णोमि॑ ।
किम् । ते॒ । ब्र॒ह्माणः॑ । गृ॒ह॒ते॒ । सखा॑यः । ये । त्वा॒ऽया । नि॒ऽद॒धुः । काम॑म् । इ॒न्द्र॒ ॥
एव । हि । त्वाम् । ऋतुऽथा । यातयन्तम् । मघा । विप्रेभ्यः । ददतम् । शृणोमि ।
किम् । ते । ब्रह्माणः । गृहते । सखायः । ये । त्वाऽया । निऽदधुः । कामम् । इन्द्र ॥
evá ǀ hí ǀ tvā́m ǀ ṛtu-thā́ ǀ yātáyantam ǀ maghā́ ǀ víprebhyaḥ ǀ dádatam ǀ śṛṇómi ǀ
kím ǀ te ǀ brahmā́ṇaḥ ǀ gṛhate ǀ sákhāyaḥ ǀ yé ǀ tvā-yā́ ǀ ni-dadhúḥ ǀ kā́mam ǀ indra ǁ
eva ǀ hi ǀ tvām ǀ ṛtu-thā ǀ yātayantam ǀ maghā ǀ viprebhyaḥ ǀ dadatam ǀ śṛṇomi ǀ
kim ǀ te ǀ brahmāṇaḥ ǀ gṛhate ǀ sakhāyaḥ ǀ ye ǀ tvā-yā ǀ ni-dadhuḥ ǀ kāmam ǀ indra ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.032.12
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.1.33.06
- Maṇḍala · Anuvāka · Ṛk
- 05.02.130
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gātu Ātreya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.