Ṛk 5.42.4
Saṃhitā
समिं॑द्र णो॒ मन॑सा नेषि॒ गोभिः॒ सं सू॒रिभि॑र्हरिवः॒ सं स्व॒स्ति ।
सं ब्रह्म॑णा दे॒वहि॑तं॒ यदस्ति॒ सं दे॒वानां॑ सुम॒त्या य॒ज्ञिया॑नां ॥
सम् इन्द्र णो मनसा नेषि गोभिः सं सूरिभिर् हरिवः सं स्वस्ति |
सम् ब्रह्मणा देवहितं यद् अस्ति सं देवानां सुमत्या यज्ञियानाम् ||
sámindra ṇo mánasā neṣi góbhiḥ sám sūríbhirharivaḥ sám svastí ǀ
sám bráhmaṇā deváhitam yádásti sám devā́nām sumatyā́ yajñíyānām ǁ
sam indra ṇo manasā neṣi gobhiḥ saṃ sūribhir harivaḥ saṃ svasti |
sam brahmaṇā devahitaṃ yad asti saṃ devānāṃ sumatyā yajñiyānām ||
Padapāṭha
सम् । इ॒न्द्र॒ । नः॒ । मन॑सा । ने॒षि॒ । गोभिः॑ । सम् । सू॒रिऽभिः॑ । ह॒रि॒ऽवः॒ । सम् । स्व॒स्ति ।
सम् । ब्रह्म॑णा । दे॒वऽहि॑तम् । यत् । अस्ति॑ । सम् । दे॒वाना॑म् । सु॒ऽम॒त्या । य॒ज्ञिया॑नाम् ॥
सम् । इन्द्र । नः । मनसा । नेषि । गोभिः । सम् । सूरिऽभिः । हरिऽवः । सम् । स्वस्ति ।
सम् । ब्रह्मणा । देवऽहितम् । यत् । अस्ति । सम् । देवानाम् । सुऽमत्या । यज्ञियानाम् ॥
sám ǀ indra ǀ naḥ ǀ mánasā ǀ neṣi ǀ góbhiḥ ǀ sám ǀ sūrí-bhiḥ ǀ hari-vaḥ ǀ sám ǀ svastí ǀ
sám ǀ bráhmaṇā ǀ devá-hitam ǀ yát ǀ ásti ǀ sám ǀ devā́nām ǀ su-matyā́ ǀ yajñíyānām ǁ
sam ǀ indra ǀ naḥ ǀ manasā ǀ neṣi ǀ gobhiḥ ǀ sam ǀ sūri-bhiḥ ǀ hari-vaḥ ǀ sam ǀ svasti ǀ
sam ǀ brahmaṇā ǀ deva-hitam ǀ yat ǀ asti ǀ sam ǀ devānām ǀ su-matyā ǀ yajñiyānām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.042.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.2.17.04
- Maṇḍala · Anuvāka · Ṛk
- 05.03.081
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Atri Bhauma
- Chandas छन्दस्
- Triṣṭubh, Ekapadā Virāj
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.