Ṛk 5.86.6
Saṃhitā
ए॒वेंद्रा॒ग्निभ्या॒महा॑वि ह॒व्यं शू॒ष्यं॑ घृ॒तं न पू॒तमद्रि॑भिः ।
ता सू॒रिषु॒ श्रवो॑ बृ॒हद्र॒यिं गृ॒णत्सु॑ दिधृत॒मिषं॑ गृ॒णत्सु॑ दिधृतं ॥
एवेन्द्राग्निभ्याम् अहावि हव्यं शूष्यं घृतं न पूतम् अद्रिभिः |
ता सूरिषु श्रवो बृहद् रयिं गृणत्सु दिधृतम् इषं गृणत्सु दिधृतम् ||
evéndrāgníbhyāmáhāvi havyám śūṣyám ghṛtám ná pūtámádribhiḥ ǀ
tā́ sūríṣu śrávo bṛhádrayím gṛṇátsu didhṛtamíṣam gṛṇátsu didhṛtam ǁ
evendrāgnibhyām ahāvi havyaṃ śūṣyaṃ ghṛtaṃ na pūtam adribhiḥ |
tā sūriṣu śravo bṛhad rayiṃ gṛṇatsu didhṛtam iṣaṃ gṛṇatsu didhṛtam ||
Padapāṭha
ए॒व । इ॒न्द्रा॒ग्निऽभ्या॑म् । अहा॑वि । ह॒व्यम् । शू॒ष्य॑म् । घृ॒तम् । न । पू॒तम् । अद्रि॑ऽभिः ।
ता । सू॒रिषु॑ । श्रवः॑ । बृ॒हत् । र॒यिम् । गृ॒णत्ऽसु॑ । दि॒धृ॒त॒म् । इष॑म् । गृ॒णत्ऽसु॑ । दि॒धृ॒त॒म् ॥
एव । इन्द्राग्निऽभ्याम् । अहावि । हव्यम् । शूष्यम् । घृतम् । न । पूतम् । अद्रिऽभिः ।
ता । सूरिषु । श्रवः । बृहत् । रयिम् । गृणत्ऽसु । दिधृतम् । इषम् । गृणत्ऽसु । दिधृतम् ॥
evá ǀ indrāgní-bhyām ǀ áhāvi ǀ havyám ǀ śūṣyám ǀ ghṛtám ǀ ná ǀ pūtám ǀ ádri-bhiḥ ǀ
tā́ ǀ sūríṣu ǀ śrávaḥ ǀ bṛhát ǀ rayím ǀ gṛṇát-su ǀ didhṛtam ǀ íṣam ǀ gṛṇát-su ǀ didhṛtam ǁ
eva ǀ indrāgni-bhyām ǀ ahāvi ǀ havyam ǀ śūṣyam ǀ ghṛtam ǀ na ǀ pūtam ǀ adri-bhiḥ ǀ
tā ǀ sūriṣu ǀ śravaḥ ǀ bṛhat ǀ rayim ǀ gṛṇat-su ǀ didhṛtam ǀ iṣam ǀ gṛṇat-su ǀ didhṛtam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.086.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.4.32.06
- Maṇḍala · Anuvāka · Ṛk
- 05.06.105
- Devatā देवता
- Agni, Indra
- Ṛṣi ऋषि
- Atri Bhauma
- Chandas छन्दस्
- Anuṣṭubh, Virāṭpūrvā
- Svara स्वरः
- ऋषभः
Text and interpretations from the Ṛgveda database of theveda.org.in.