Ṛk 5.74.10
Saṃhitā
अश्वि॑ना॒ यद्ध॒ कर्हि॑ चिच्छुश्रू॒यात॑मि॒मं हवं॑ ।
वस्वी॑रू॒ षु वां॒ भुजः॑ पृं॒चंति॒ सु वां॒ पृचः॑ ॥
अश्विना यद् ध कर्हि चिच् छुश्रूयातम् इमं हवम् |
वस्वीर् ऊ षु वाम् भुजः पृञ्चन्ति सु वाम् पृचः ||
áśvinā yáddha kárhi cicchuśrūyā́tamimám hávam ǀ
vásvīrū ṣú vām bhújaḥ pṛñcánti sú vām pṛ́caḥ ǁ
aśvinā yad dha karhi cic chuśrūyātam imaṃ havam |
vasvīr ū ṣu vām bhujaḥ pṛñcanti su vām pṛcaḥ ||
Padapāṭha
अश्वि॑ना । यत् । ह॒ । कर्हि॑ । चि॒त् । शु॒श्रु॒यात॑म् । इ॒मम् । हव॑म् ।
वस्वीः॑ । ऊं॒ इति॑ । सु । वा॒म् । भुजः॑ । पृ॒ञ्चन्ति॑ । सु । वा॒म् । पृचः॑ ॥
अश्विना । यत् । ह । कर्हि । चित् । शुश्रुयातम् । इमम् । हवम् ।
वस्वीः । ऊं इति । सु । वाम् । भुजः । पृञ्चन्ति । सु । वाम् । पृचः ॥
áśvinā ǀ yát ǀ ha ǀ kárhi ǀ cit ǀ śuśruyā́tam ǀ imám ǀ hávam ǀ
vásvīḥ ǀ ūṃ íti ǀ sú ǀ vām ǀ bhújaḥ ǀ pṛñcánti ǀ sú ǀ vām ǀ pṛ́caḥ ǁ
aśvinā ǀ yat ǀ ha ǀ karhi ǀ cit ǀ śuśruyātam ǀ imam ǀ havam ǀ
vasvīḥ ǀ ūṃ iti ǀ su ǀ vām ǀ bhujaḥ ǀ pṛñcanti ǀ su ǀ vām ǀ pṛcaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.074.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.4.14.05
- Maṇḍala · Anuvāka · Ṛk
- 05.06.020
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Paura Ātreya
- Chandas छन्दस्
- Anuṣṭubh
- Svara स्वरः
- ऋषभः
Text and interpretations from the Ṛgveda database of theveda.org.in.