Ṛk 5.74.4
Saṃhitā
पौ॒रं चि॒द्ध्यु॑द॒प्रुतं॒ पौर॑ पौ॒राय॒ जिन्व॑थः ।
यदीं॑ गृभी॒तता॑तये सिं॒हमि॑व द्रु॒हस्प॒दे ॥
पौरं चिद् ध्य् उदप्रुतम् पौर पौराय जिन्वथः |
यद् ईं गृभीततातये सिंहम् इव द्रुहस् पदे ||
paurám ciddhyúdaprútam páura paurā́ya jínvathaḥ ǀ
yádīm gṛbhītátātaye siṃhámiva druháspadé ǁ
pauraṃ cid dhy udaprutam paura paurāya jinvathaḥ |
yad īṃ gṛbhītatātaye siṃham iva druhas pade ||
Padapāṭha
पौ॒रम् । चि॒त् । हि । उ॒द॒ऽप्रुत॑म् । पौर॑ । पौ॒राय॑ । जिन्व॑थः ।
यत् । ई॒म् । गृ॒भी॒तऽता॑तये । सिं॒हम्ऽइ॑व । द्रु॒हः । प॒दे ॥
पौरम् । चित् । हि । उदऽप्रुतम् । पौर । पौराय । जिन्वथः ।
यत् । ईम् । गृभीतऽतातये । सिंहम्ऽइव । द्रुहः । पदे ॥
paurám ǀ cit ǀ hí ǀ uda-prútam ǀ páura ǀ paurā́ya ǀ jínvathaḥ ǀ
yát ǀ īm ǀ gṛbhītá-tātaye ǀ siṃhám-iva ǀ druháḥ ǀ padé ǁ
pauram ǀ cit ǀ hi ǀ uda-prutam ǀ paura ǀ paurāya ǀ jinvathaḥ ǀ
yat ǀ īm ǀ gṛbhīta-tātaye ǀ siṃham-iva ǀ druhaḥ ǀ pade ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.074.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.4.13.04
- Maṇḍala · Anuvāka · Ṛk
- 05.06.014
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Paura Ātreya
- Chandas छन्दस्
- Anuṣṭubh
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.