Ṛk 5.74.8
Saṃhitā
आ वां॒ रथो॒ रथा॑नां॒ येष्ठो॑ यात्वश्विना ।
पु॒रू चि॑दस्म॒युस्ति॒र आं॑गू॒षो मर्त्ये॒ष्वा ॥
आ वां रथो रथानां येष्ठो यात्व् अश्विना |
पुरू चिद् अस्मयुस् तिर आङ्गूषो मर्त्येष्व् आ ||
ā́ vām rátho ráthānām yéṣṭho yātvaśvinā ǀ
purū́ cidasmayústirá āṅgūṣó mártyeṣvā́ ǁ
ā vāṃ ratho rathānāṃ yeṣṭho yātv aśvinā |
purū cid asmayus tira āṅgūṣo martyeṣv ā ||
Padapāṭha
आ । वा॒म् । रथः॑ । रथा॑नाम् । येष्ठः॑ । या॒तु॒ । अ॒श्वि॒ना॒ ।
पु॒रु । चि॒त् । अ॒स्म॒ऽयुः । ति॒रः । आ॒ङ्गू॒षः । मर्त्ये॑षु । आ ॥
आ । वाम् । रथः । रथानाम् । येष्ठः । यातु । अश्विना ।
पुरु । चित् । अस्मऽयुः । तिरः । आङ्गूषः । मर्त्येषु । आ ॥
ā́ ǀ vām ǀ ráthaḥ ǀ ráthānām ǀ yéṣṭhaḥ ǀ yātu ǀ aśvinā ǀ
purú ǀ cit ǀ asma-yúḥ ǀ tiráḥ ǀ āṅgūṣáḥ ǀ mártyeṣu ǀ ā́ ǁ
ā ǀ vām ǀ rathaḥ ǀ rathānām ǀ yeṣṭhaḥ ǀ yātu ǀ aśvinā ǀ
puru ǀ cit ǀ asma-yuḥ ǀ tiraḥ ǀ āṅgūṣaḥ ǀ martyeṣu ǀ ā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.074.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.4.14.03
- Maṇḍala · Anuvāka · Ṛk
- 05.06.018
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Paura Ātreya
- Chandas छन्दस्
- Anuṣṭubh
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.