Ṛk 5.50.3
Saṃhitā
अतो॑ न॒ आ नॄनति॑थी॒नतः॒ पत्नी॑र्दशस्यत ।
आ॒रे विश्वं॑ पथे॒ष्ठां द्वि॒षो यु॑योतु॒ यूयु॑विः ॥
अतो न आ नॄन् अतिथीन् अतः पत्नीर् दशस्यत |
आरे विश्वम् पथेष्ठां द्विषो युयोतु यूयुविः ||
áto na ā́ nṝ́nátithīnátaḥ pátnīrdaśasyata ǀ
āré víśvam patheṣṭhā́m dviṣó yuyotu yū́yuviḥ ǁ
ato na ā nṝn atithīn ataḥ patnīr daśasyata |
āre viśvam patheṣṭhāṃ dviṣo yuyotu yūyuviḥ ||
Padapāṭha
अतः॑ । नः॒ । आ । नॄन् । अति॑थीन् । अतः॑ । पत्नीः॑ । द॒श॒स्य॒त॒ ।
आ॒रे । विश्व॑म् । प॒थे॒ऽस्थाम् । द्वि॒षः । यु॒यो॒तु॒ । युयु॑विः ॥
अतः । नः । आ । नॄन् । अतिथीन् । अतः । पत्नीः । दशस्यत ।
आरे । विश्वम् । पथेऽस्थाम् । द्विषः । युयोतु । युयुविः ॥
átaḥ ǀ naḥ ǀ ā́ ǀ nṝ́n ǀ átithīn ǀ átaḥ ǀ pátnīḥ ǀ daśasyata ǀ
āré ǀ víśvam ǀ pathe-sthā́m ǀ dviṣáḥ ǀ yuyotu ǀ yúyuviḥ ǁ
ataḥ ǀ naḥ ǀ ā ǀ nṝn ǀ atithīn ǀ ataḥ ǀ patnīḥ ǀ daśasyata ǀ
āre ǀ viśvam ǀ pathe-sthām ǀ dviṣaḥ ǀ yuyotu ǀ yuyuviḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.050.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.3.04.03
- Maṇḍala · Anuvāka · Ṛk
- 05.04.039
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Svastyātreya Ātreya
- Chandas छन्दस्
- Anuṣṭubh, Paṅkti
- Svara स्वरः
- ऋषभः
Text and interpretations from the Ṛgveda database of theveda.org.in.