Ṛk 5.79.7
Saṃhitā
तेभ्यो॑ द्यु॒म्नं बृ॒हद्यश॒ उषो॑ मघो॒न्या व॑ह ।
ये नो॒ राधां॒स्यश्व्या॑ ग॒व्या भजं॑त सू॒रयः॒ सुजा॑ते॒ अश्व॑सूनृते ॥
तेभ्यो द्युम्नम् बृहद् यश उषो मघोन्य् आ वह |
ये नो राधांस्य् अश्व्या गव्या भजन्त सूरयः सुजाते अश्वसूनृते ||
tébhyo dyumnám bṛhádyáśa úṣo maghonyā́ vaha ǀ
yé no rā́dhāṃsyáśvyā gavyā́ bhájanta sūráyaḥ sújāte áśvasūnṛte ǁ
tebhyo dyumnam bṛhad yaśa uṣo maghony ā vaha |
ye no rādhāṃsy aśvyā gavyā bhajanta sūrayaḥ sujāte aśvasūnṛte ||
Padapāṭha
तेभ्यः॑ । द्यु॒म्नम् । बृ॒हत् । यशः॑ । उषः॑ । म॒घो॒नि॒ । आ । व॒ह॒ ।
ये । नः॒ । राधां॑सि । अश्व्या॑ । ग॒व्या । भज॑न्त । सू॒रयः॑ । सुऽजा॑ते । अश्व॑ऽसूनृते ॥
तेभ्यः । द्युम्नम् । बृहत् । यशः । उषः । मघोनि । आ । वह ।
ये । नः । राधांसि । अश्व्या । गव्या । भजन्त । सूरयः । सुऽजाते । अश्वऽसूनृते ॥
tébhyaḥ ǀ dyumnám ǀ bṛhát ǀ yáśaḥ ǀ úṣaḥ ǀ maghoni ǀ ā́ ǀ vaha ǀ
yé ǀ naḥ ǀ rā́dhāṃsi ǀ áśvyā ǀ gavyā́ ǀ bhájanta ǀ sūráyaḥ ǀ sú-jāte ǀ áśva-sūnṛte ǁ
tebhyaḥ ǀ dyumnam ǀ bṛhat ǀ yaśaḥ ǀ uṣaḥ ǀ maghoni ǀ ā ǀ vaha ǀ
ye ǀ naḥ ǀ rādhāṃsi ǀ aśvyā ǀ gavyā ǀ bhajanta ǀ sūrayaḥ ǀ su-jāte ǀ aśva-sūnṛte ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.079.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.4.22.02
- Maṇḍala · Anuvāka · Ṛk
- 05.06.055
- Devatā देवता
- Uṣas
- Ṛṣi ऋषि
- Satyaśravas Ātreya
- Chandas छन्दस्
- Paṅkti
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.