Ṛk 5.85.2
Saṃhitā
वने॑षु॒ व्यं१॒॑तरि॑क्षं ततान॒ वाज॒मर्व॑त्सु॒ पय॑ उ॒स्रिया॑सु ।
हृ॒त्सु क्रतुं॒ वरु॑णो अ॒प्स्व१॒॑ग्निं दि॒वि सूर्य॑मदधा॒त्सोम॒मद्रौ॑ ॥
वनेषु व्य् अन्तरिक्षं ततान वाजम् अर्वत्सु पय उस्रियासु |
हृत्सु क्रतुं वरुणो अप्स्व् अग्निं दिवि सूर्यम् अदधात् सोमम् अद्रौ ||
váneṣu vyántárikṣam tatāna vā́jamárvatsu páya usríyāsu ǀ
hṛtsú krátum váruṇo apsvágním diví sū́ryamadadhātsómamádrau ǁ
vaneṣu vy antarikṣaṃ tatāna vājam arvatsu paya usriyāsu |
hṛtsu kratuṃ varuṇo apsv agniṃ divi sūryam adadhāt somam adrau ||
Padapāṭha
वने॑षु । वि । अ॒न्तरि॑क्षम् । त॒ता॒न॒ । वाज॑म् । अर्व॑त्ऽसु । पयः॑ । उ॒स्रिया॑सु ।
हृ॒त्ऽसु । क्रतु॑म् । वरु॑णः । अ॒प्ऽसु । अ॒ग्निम् । दि॒वि । सूर्य॑म् । अ॒द॒धा॒त् । सोम॑म् । अद्रौ॑ ॥
वनेषु । वि । अन्तरिक्षम् । ततान । वाजम् । अर्वत्ऽसु । पयः । उस्रियासु ।
हृत्ऽसु । क्रतुम् । वरुणः । अप्ऽसु । अग्निम् । दिवि । सूर्यम् । अदधात् । सोमम् । अद्रौ ॥
váneṣu ǀ ví ǀ antárikṣam ǀ tatāna ǀ vā́jam ǀ árvat-su ǀ páyaḥ ǀ usríyāsu ǀ
hṛt-sú ǀ krátum ǀ váruṇaḥ ǀ ap-sú ǀ agním ǀ diví ǀ sū́ryam ǀ adadhāt ǀ sómam ǀ ádrau ǁ
vaneṣu ǀ vi ǀ antarikṣam ǀ tatāna ǀ vājam ǀ arvat-su ǀ payaḥ ǀ usriyāsu ǀ
hṛt-su ǀ kratum ǀ varuṇaḥ ǀ ap-su ǀ agnim ǀ divi ǀ sūryam ǀ adadhāt ǀ somam ǀ adrau ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.085.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.4.30.02
- Maṇḍala · Anuvāka · Ṛk
- 05.06.093
- Devatā देवता
- Varuṇa
- Ṛṣi ऋषि
- Atri Bhauma
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.