Ṛk 5.60.6
Saṃhitā
यदु॑त्त॒मे म॑रुतो मध्य॒मे वा॒ यद्वा॑व॒मे सु॑भगासो दि॒वि ष्ठ ।
अतो॑ नो रुद्रा उ॒त वा॒ न्व१॒॑स्याग्ने॑ वि॒त्ताद्ध॒विषो॒ यद्यजा॑म ॥
यद् उत्तमे मरुतो मध्यमे वा यद् वावमे सुभगासो दिवि ष्ठ |
अतो नो रुद्रा उत वा न्व् अस्याग्ने वित्ताद् धविषो यद् यजाम ||
yáduttamé maruto madhyamé vā yádvāvamé subhagāso diví ṣṭhá ǀ
áto no rudrā utá vā nvásyā́gne vittā́ddhavíṣo yádyájāma ǁ
yad uttame maruto madhyame vā yad vāvame subhagāso divi ṣṭha |
ato no rudrā uta vā nv asyāgne vittād dhaviṣo yad yajāma ||
Padapāṭha
यत् । उ॒त्ऽत॒मे । म॒रु॒तः॒ । म॒ध्य॒मे । वा॒ । यत् । वा॒ । अ॒व॒मे । सु॒ऽभ॒गा॒सः॒ । दि॒वि । स्थ ।
अतः॑ । नः॒ । रु॒द्राः॒ । उ॒त । वा॒ । नु । अ॒स्य॒ । अग्ने॑ । वि॒त्तात् । ह॒विषः॑ । यत् । यजा॑म ॥
यत् । उत्ऽतमे । मरुतः । मध्यमे । वा । यत् । वा । अवमे । सुऽभगासः । दिवि । स्थ ।
अतः । नः । रुद्राः । उत । वा । नु । अस्य । अग्ने । वित्तात् । हविषः । यत् । यजाम ॥
yát ǀ ut-tamé ǀ marutaḥ ǀ madhyamé ǀ vā ǀ yát ǀ vā ǀ avamé ǀ su-bhagāsaḥ ǀ diví ǀ sthá ǀ
átaḥ ǀ naḥ ǀ rudrāḥ ǀ utá ǀ vā ǀ nú ǀ asya ǀ ágne ǀ vittā́t ǀ havíṣaḥ ǀ yát ǀ yájāma ǁ
yat ǀ ut-tame ǀ marutaḥ ǀ madhyame ǀ vā ǀ yat ǀ vā ǀ avame ǀ su-bhagāsaḥ ǀ divi ǀ stha ǀ
ataḥ ǀ naḥ ǀ rudrāḥ ǀ uta ǀ vā ǀ nu ǀ asya ǀ agne ǀ vittāt ǀ haviṣaḥ ǀ yat ǀ yajāma ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.060.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.3.25.06
- Maṇḍala · Anuvāka · Ṛk
- 05.05.030
- Devatā देवता
- 1, 6-8: Maruts, Agni; 2-5: Maruts
- Ṛṣi ऋषि
- Śyāvāśva Ātreya
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.