Ṛk 5.29.12
Saṃhitā
नव॑ग्वासः सु॒तसो॑मास॒ इंद्रं॒ दश॑ग्वासो अ॒भ्य॑र्चंत्य॒र्कैः ।
गव्यं॑ चिदू॒र्वम॑पि॒धान॑वंतं॒ तं चि॒न्नरः॑ शशमा॒ना अप॑ व्रन् ॥
नवग्वासः सुतसोमास इन्द्रं दशग्वासो अभ्य् अर्चन्त्य् अर्कैः |
गव्यं चिद् ऊर्वम् अपिधानवन्तं तं चिन् नरः शशमाना अप व्रन् ||
návagvāsaḥ sutásomāsa índram dáśagvāso abhyárcantyarkáiḥ ǀ
gávyam cidūrvámapidhā́navantam tám cinnáraḥ śaśamānā́ ápa vran ǁ
navagvāsaḥ sutasomāsa indraṃ daśagvāso abhy arcanty arkaiḥ |
gavyaṃ cid ūrvam apidhānavantaṃ taṃ cin naraḥ śaśamānā apa vran ||
Padapāṭha
नव॑ऽग्वासः । सु॒तऽसो॑मासः । इन्द्र॑म् । दश॑ऽग्वासः । अ॒भि । अ॒र्च॒न्ति॒ । अ॒र्कैः ।
गव्य॑म् । चि॒त् । ऊ॒र्वम् । अ॒पि॒धान॑ऽवन्तम् । तम् । चि॒त् । नरः॑ । श॒श॒मा॒नाः । अप॑ । व्र॒न् ॥
नवऽग्वासः । सुतऽसोमासः । इन्द्रम् । दशऽग्वासः । अभि । अर्चन्ति । अर्कैः ।
गव्यम् । चित् । ऊर्वम् । अपिधानऽवन्तम् । तम् । चित् । नरः । शशमानाः । अप । व्रन् ॥
náva-gvāsaḥ ǀ sutá-somāsaḥ ǀ índram ǀ dáśa-gvāsaḥ ǀ abhí ǀ arcanti ǀ arkáiḥ ǀ
gávyam ǀ cit ǀ ūrvám ǀ apidhā́na-vantam ǀ tám ǀ cit ǀ náraḥ ǀ śaśamānā́ḥ ǀ ápa ǀ vran ǁ
nava-gvāsaḥ ǀ suta-somāsaḥ ǀ indram ǀ daśa-gvāsaḥ ǀ abhi ǀ arcanti ǀ arkaiḥ ǀ
gavyam ǀ cit ǀ ūrvam ǀ apidhāna-vantam ǀ tam ǀ cit ǀ naraḥ ǀ śaśamānāḥ ǀ apa ǀ vran ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.029.12
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.1.25.02
- Maṇḍala · Anuvāka · Ṛk
- 05.02.087
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gaurivīti Śāktya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.