Ṛk 5.29.3
Saṃhitā
उ॒त ब्र॑ह्माणो मरुतो मे अ॒स्येंद्रः॒ सोम॑स्य॒ सुषु॑तस्य पेयाः ।
तद्धि ह॒व्यं मनु॑षे॒ गा अविं॑द॒दह॒न्नहिं॑ पपि॒वाँ इंद्रो॑ अस्य ॥
उत ब्रह्माणो मरुतो मे अस्येन्द्रः सोमस्य सुषुतस्य पेयाः |
तद् धि हव्यम् मनुषे गा अविन्दद् अहन्न् अहिम् पपिवां इन्द्रो अस्य ||
utá brahmāṇo maruto me asyéndraḥ sómasya súṣutasya peyāḥ ǀ
táddhí havyám mánuṣe gā́ ávindadáhannáhim papivā́m̐ índro asya ǁ
uta brahmāṇo maruto me asyendraḥ somasya suṣutasya peyāḥ |
tad dhi havyam manuṣe gā avindad ahann ahim papivāṃ indro asya ||
Padapāṭha
उ॒त । ब्र॒ह्मा॒णः॒ । म॒रु॒तः॒ । मे॒ । अ॒स्य॒ । इन्द्रः॑ । सोम॑स्य । सुऽसु॑तस्य । पे॒याः॒ ।
तत् । हि । ह॒व्यम् । मनु॑षे । गाः । अवि॑न्दत् । अह॑न् । अहि॑म् । प॒पि॒ऽवान् । इन्द्रः॑ । अ॒स्य॒ ॥
उत । ब्रह्माणः । मरुतः । मे । अस्य । इन्द्रः । सोमस्य । सुऽसुतस्य । पेयाः ।
तत् । हि । हव्यम् । मनुषे । गाः । अविन्दत् । अहन् । अहिम् । पपिऽवान् । इन्द्रः । अस्य ॥
utá ǀ brahmāṇaḥ ǀ marutaḥ ǀ me ǀ asya ǀ índraḥ ǀ sómasya ǀ sú-sutasya ǀ peyāḥ ǀ
tát ǀ hí ǀ havyám ǀ mánuṣe ǀ gā́ḥ ǀ ávindat ǀ áhan ǀ áhim ǀ papi-vā́n ǀ índraḥ ǀ asya ǁ
uta ǀ brahmāṇaḥ ǀ marutaḥ ǀ me ǀ asya ǀ indraḥ ǀ somasya ǀ su-sutasya ǀ peyāḥ ǀ
tat ǀ hi ǀ havyam ǀ manuṣe ǀ gāḥ ǀ avindat ǀ ahan ǀ ahim ǀ papi-vān ǀ indraḥ ǀ asya ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.029.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.1.23.03
- Maṇḍala · Anuvāka · Ṛk
- 05.02.078
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gaurivīti Śāktya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.