Ṛk 5.29.9
Saṃhitā
उ॒शना॒ यत्स॑ह॒स्यै॒३॒॑रया॑तं गृ॒हमिं॑द्र जूजुवा॒नेभि॒रश्वैः॑ ।
व॒न्वा॒नो अत्र॑ स॒रथं॑ ययाथ॒ कुत्से॑न दे॒वैरव॑नोर्ह॒ शुष्णं॑ ॥
उशना यत् सहस्यैर् अयातं गृहम् इन्द्र जूजुवानेभिर् अश्वैः |
वन्वानो अत्र सरथं ययाथ कुत्सेन देवैर् अवनोर् ह शुष्णम् ||
uśánā yátsahasyáiráyātam gṛhámindra jūjuvānébhiráśvaiḥ ǀ
vanvānó átra sarátham yayātha kútsena deváirávanorha śúṣṇam ǁ
uśanā yat sahasyair ayātaṃ gṛham indra jūjuvānebhir aśvaiḥ |
vanvāno atra sarathaṃ yayātha kutsena devair avanor ha śuṣṇam ||
Padapāṭha
उ॒शना॑ । यत् । स॒ह॒स्यैः॑ । अया॑तम् । गृ॒हम् । इ॒न्द्र॒ । जू॒जु॒वा॒नेभिः॑ । अश्वैः॑ ।
व॒न्वा॒नः । अत्र॑ । स॒ऽरथ॑म् । य॒या॒थ॒ । कुत्से॑न । दे॒वैः । अव॑नोः । ह॒ । शुष्ण॑म् ॥
उशना । यत् । सहस्यैः । अयातम् । गृहम् । इन्द्र । जूजुवानेभिः । अश्वैः ।
वन्वानः । अत्र । सऽरथम् । ययाथ । कुत्सेन । देवैः । अवनोः । ह । शुष्णम् ॥
uśánā ǀ yát ǀ sahasyáiḥ ǀ áyātam ǀ gṛhám ǀ indra ǀ jūjuvānébhiḥ ǀ áśvaiḥ ǀ
vanvānáḥ ǀ átra ǀ sa-rátham ǀ yayātha ǀ kútsena ǀ deváiḥ ǀ ávanoḥ ǀ ha ǀ śúṣṇam ǁ
uśanā ǀ yat ǀ sahasyaiḥ ǀ ayātam ǀ gṛham ǀ indra ǀ jūjuvānebhiḥ ǀ aśvaiḥ ǀ
vanvānaḥ ǀ atra ǀ sa-ratham ǀ yayātha ǀ kutsena ǀ devaiḥ ǀ avanoḥ ǀ ha ǀ śuṣṇam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.029.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.1.24.04
- Maṇḍala · Anuvāka · Ṛk
- 05.02.084
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gaurivīti Śāktya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.