Ṛk 5.29.7
Saṃhitā
सखा॒ सख्ये॑ अपच॒त्तूय॑म॒ग्निर॒स्य क्रत्वा॑ महि॒षा त्री श॒तानि॑ ।
त्री सा॒कमिंद्रो॒ मनु॑षः॒ सरां॑सि सु॒तं पि॑बद्वृत्र॒हत्या॑य॒ सोमं॑ ॥
सखा सख्ये अपचत् तूयम् अग्निर् अस्य क्रत्वा महिषा त्री शतानि |
त्री साकम् इन्द्रो मनुषः सरांसि सुतम् पिबद् वृत्रहत्याय सोमम् ||
sákhā sákhye apacattū́yamagnírasyá krátvā mahiṣā́ trī́ śatā́ni ǀ
trī́ sākámíndro mánuṣaḥ sárāṃsi sutám pibadvṛtrahátyāya sómam ǁ
sakhā sakhye apacat tūyam agnir asya kratvā mahiṣā trī śatāni |
trī sākam indro manuṣaḥ sarāṃsi sutam pibad vṛtrahatyāya somam ||
Padapāṭha
सखा॑ । सख्ये॑ । अ॒प॒च॒त् । तूय॑म् । अ॒ग्निः । अ॒स्य । क्रत्वा॑ । म॒हि॒षा । त्री । श॒तानि॑ ।
त्री । सा॒कम् । इन्द्रः॑ । मनु॑षः । सरां॑सि । सु॒तम् । पि॒ब॒त् । वृ॒त्र॒ऽहत्या॑य । सोम॑म् ॥
सखा । सख्ये । अपचत् । तूयम् । अग्निः । अस्य । क्रत्वा । महिषा । त्री । शतानि ।
त्री । साकम् । इन्द्रः । मनुषः । सरांसि । सुतम् । पिबत् । वृत्रऽहत्याय । सोमम् ॥
sákhā ǀ sákhye ǀ apacat ǀ tū́yam ǀ agníḥ ǀ asyá ǀ krátvā ǀ mahiṣā́ ǀ trī́ ǀ śatā́ni ǀ
trī́ ǀ sākám ǀ índraḥ ǀ mánuṣaḥ ǀ sárāṃsi ǀ sutám ǀ pibat ǀ vṛtra-hátyāya ǀ sómam ǁ
sakhā ǀ sakhye ǀ apacat ǀ tūyam ǀ agniḥ ǀ asya ǀ kratvā ǀ mahiṣā ǀ trī ǀ śatāni ǀ
trī ǀ sākam ǀ indraḥ ǀ manuṣaḥ ǀ sarāṃsi ǀ sutam ǀ pibat ǀ vṛtra-hatyāya ǀ somam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.029.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.1.24.02
- Maṇḍala · Anuvāka · Ṛk
- 05.02.082
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gaurivīti Śāktya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.