Ṛk 5.59.2
Saṃhitā
अमा॑देषां भि॒यसा॒ भूमि॑रेजति॒ नौर्न पू॒र्णा क्ष॑रति॒ व्यथि॑र्य॒ती ।
दू॒रे॒दृशो॒ ये चि॒तयं॑त॒ एम॑भिरं॒तर्म॒हे वि॒दथे॑ येतिरे॒ नरः॑ ॥
अमाद् एषाम् भियसा भूमिर् एजति नौर् न पूर्णा क्षरति व्यथिर् यती |
दूरेदृशो ये चितयन्त एमभिर् अन्तर् महे विदथे येतिरे नरः ||
ámādeṣām bhiyásā bhū́mirejati náurná pūrṇā́ kṣarati vyáthiryatī́ ǀ
dūredṛ́śo yé citáyanta émabhirantármahé vidáthe yetire náraḥ ǁ
amād eṣām bhiyasā bhūmir ejati naur na pūrṇā kṣarati vyathir yatī |
dūredṛśo ye citayanta emabhir antar mahe vidathe yetire naraḥ ||
Padapāṭha
अमा॑त् । ए॒षा॒म् । भि॒यसा॑ । भूमिः॑ । ए॒ज॒ति॒ । नौः । न । पू॒र्णा । क्ष॒र॒ति॒ । व्यथिः॑ । य॒ती ।
दू॒रे॒ऽदृशः॑ । ये । चि॒तय॑न्ते । एम॑ऽभिः । अ॒न्तः । म॒हे । वि॒दथे॑ । ये॒ति॒रे॒ । नरः॑ ॥
अमात् । एषाम् । भियसा । भूमिः । एजति । नौः । न । पूर्णा । क्षरति । व्यथिः । यती ।
दूरेऽदृशः । ये । चितयन्ते । एमऽभिः । अन्तः । महे । विदथे । येतिरे । नरः ॥
ámāt ǀ eṣām ǀ bhiyásā ǀ bhū́miḥ ǀ ejati ǀ náuḥ ǀ ná ǀ pūrṇā́ ǀ kṣarati ǀ vyáthiḥ ǀ yatī́ ǀ
dūre-dṛ́śaḥ ǀ yé ǀ citáyante ǀ éma-bhiḥ ǀ antáḥ ǀ mahé ǀ vidáthe ǀ yetire ǀ náraḥ ǁ
amāt ǀ eṣām ǀ bhiyasā ǀ bhūmiḥ ǀ ejati ǀ nauḥ ǀ na ǀ pūrṇā ǀ kṣarati ǀ vyathiḥ ǀ yatī ǀ
dūre-dṛśaḥ ǀ ye ǀ citayante ǀ ema-bhiḥ ǀ antaḥ ǀ mahe ǀ vidathe ǀ yetire ǀ naraḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.059.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.3.24.02
- Maṇḍala · Anuvāka · Ṛk
- 05.05.018
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Śyāvāśva Ātreya
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.