Ṛk 5.59.8
Saṃhitā
मिमा॑तु॒ द्यौरदि॑तिर्वी॒तये॑ नः॒ सं दानु॑चित्रा उ॒षसो॑ यतंतां ।
आचु॑च्यवुर्दि॒व्यं कोश॑मे॒त ऋषे॑ रु॒द्रस्य॑ म॒रुतो॑ गृणा॒नाः ॥
मिमातु द्यौर् अदितिर् वीतये नः सं दानुचित्रा उषसो यतन्ताम् |
आचुच्यवुर् दिव्यं कोशम् एत ऋषे रुद्रस्य मरुतो गृणानाः ||
mímātu dyáuráditirvītáye naḥ sám dā́nucitrā uṣáso yatantām ǀ
ā́cucyavurdivyám kóśametá ṛ́ṣe rudrásya marúto gṛṇānā́ḥ ǁ
mimātu dyaur aditir vītaye naḥ saṃ dānucitrā uṣaso yatantām |
ācucyavur divyaṃ kośam eta ṛṣe rudrasya maruto gṛṇānāḥ ||
Padapāṭha
मिमा॑तु । द्यौः । अदि॑तिः । वी॒तये॑ । नः॒ । सम् । दानु॑ऽचित्राः । उ॒षसः॑ । य॒त॒न्ता॒म् ।
आ । अ॒चु॒च्य॒वुः॒ । दि॒व्यम् । कोश॑म् । ए॒ते । ऋषे॑ । रु॒द्रस्य॑ । म॒रुतः॑ । गृ॒णा॒नाः ॥
मिमातु । द्यौः । अदितिः । वीतये । नः । सम् । दानुऽचित्राः । उषसः । यतन्ताम् ।
आ । अचुच्यवुः । दिव्यम् । कोशम् । एते । ऋषे । रुद्रस्य । मरुतः । गृणानाः ॥
mímātu ǀ dyáuḥ ǀ áditiḥ ǀ vītáye ǀ naḥ ǀ sám ǀ dā́nu-citrāḥ ǀ uṣásaḥ ǀ yatantām ǀ
ā́ ǀ acucyavuḥ ǀ divyám ǀ kóśam ǀ eté ǀ ṛ́ṣe ǀ rudrásya ǀ marútaḥ ǀ gṛṇānā́ḥ ǁ
mimātu ǀ dyauḥ ǀ aditiḥ ǀ vītaye ǀ naḥ ǀ sam ǀ dānu-citrāḥ ǀ uṣasaḥ ǀ yatantām ǀ
ā ǀ acucyavuḥ ǀ divyam ǀ kośam ǀ ete ǀ ṛṣe ǀ rudrasya ǀ marutaḥ ǀ gṛṇānāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.059.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.3.24.08
- Maṇḍala · Anuvāka · Ṛk
- 05.05.024
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Śyāvāśva Ātreya
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.