Ṛk 5.59.1
Saṃhitā
प्र वः॒ स्पळ॑क्रन्त्सुवि॒ताय॑ दा॒वनेऽर्चा॑ दि॒वे प्र पृ॑थि॒व्या ऋ॒तं भ॑रे ।
उ॒क्षंते॒ अश्वां॒तरु॑षंत॒ आ रजोऽनु॒ स्वं भा॒नुं श्र॑थयंते अर्ण॒वैः ॥
प्र व स्पऌ अक्रन् सुविताय दावने ऽर्चा दिवे प्र पृथिव्या ऋतम् भरे |
उक्षन्ते अश्वान् तरुषन्त आ रजो ऽनु स्वम् भानुं श्रथयन्ते अर्णवैः ||
prá vaḥ spáḷakrantsuvitā́ya dāváné’rcā divé prá pṛthivyā́ ṛtám bhare ǀ
ukṣánte áśvāntáruṣanta ā́ rájó’nu svám bhānúm śrathayante arṇaváiḥ ǁ
pra va spaḷ akran suvitāya dāvane 'rcā dive pra pṛthivyā ṛtam bhare |
ukṣante aśvān taruṣanta ā rajo 'nu svam bhānuṃ śrathayante arṇavaiḥ ||
Padapāṭha
प्र । वः॒ । स्पट् । अ॒क्र॒न् । सु॒वि॒ताय॑ । दा॒वने॑ । अर्च॑ । दि॒वे । प्र । पृ॒थि॒व्यै । ऋ॒तम् । भ॒रे॒ ।
उ॒क्षन्ते॑ । अश्वा॑न् । तरु॑षन्ते । आ । रजः॑ । अनु॑ । स्वम् । भा॒नुम् । श्र॒थ॒य॒न्ते॒ । अ॒र्ण॒वैः ॥
प्र । वः । स्पट् । अक्रन् । सुविताय । दावने । अर्च । दिवे । प्र । पृथिव्यै । ऋतम् । भरे ।
उक्षन्ते । अश्वान् । तरुषन्ते । आ । रजः । अनु । स्वम् । भानुम् । श्रथयन्ते । अर्णवैः ॥
prá ǀ vaḥ ǀ spáṭ ǀ akran ǀ suvitā́ya ǀ dāváne ǀ árca ǀ divé ǀ prá ǀ pṛthivyái ǀ ṛtám ǀ bhare ǀ
ukṣánte ǀ áśvān ǀ táruṣante ǀ ā́ ǀ rájaḥ ǀ ánu ǀ svám ǀ bhānúm ǀ śrathayante ǀ arṇaváiḥ ǁ
pra ǀ vaḥ ǀ spaṭ ǀ akran ǀ suvitāya ǀ dāvane ǀ arca ǀ dive ǀ pra ǀ pṛthivyai ǀ ṛtam ǀ bhare ǀ
ukṣante ǀ aśvān ǀ taruṣante ǀ ā ǀ rajaḥ ǀ anu ǀ svam ǀ bhānum ǀ śrathayante ǀ arṇavaiḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.059.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.3.24.01
- Maṇḍala · Anuvāka · Ṛk
- 05.05.017
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Śyāvāśva Ātreya
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.