Ṛk 5.59.4
Saṃhitā
को वो॑ म॒हांति॑ मह॒तामुद॑श्नव॒त्कस्काव्या॑ मरुतः॒ को ह॒ पौंस्या॑ ।
यू॒यं ह॒ भूमिं॑ कि॒रणं॒ न रे॑जथ॒ प्र यद्भर॑ध्वे सुवि॒ताय॑ दा॒वने॑ ॥
को वो महान्ति महताम् उद् अश्नवत् कस् काव्या मरुतः को ह पौंस्या |
यूयं ह भूमिं किरणं न रेजथ प्र यद् भरध्वे सुविताय दावने ||
kó vo mahā́nti mahatā́múdaśnavatkáskā́vyā marutaḥ kó ha páuṃsyā ǀ
yūyám ha bhū́mim kiráṇam ná rejatha prá yádbháradhve suvitā́ya dāváne ǁ
ko vo mahānti mahatām ud aśnavat kas kāvyā marutaḥ ko ha pauṃsyā |
yūyaṃ ha bhūmiṃ kiraṇaṃ na rejatha pra yad bharadhve suvitāya dāvane ||
Padapāṭha
कः । वः॒ । म॒हान्ति॑ । म॒ह॒ताम् । उत् । अ॒श्न॒व॒त् । कः । काव्या॑ । म॒रु॒तः॒ । कः । ह॒ । पौंस्या॑ ।
यू॒यम् । ह॒ । भूमि॑म् । कि॒रण॑म् । न । रे॒ज॒थ॒ । प्र । यत् । भर॑ध्वे । सु॒वि॒ताय॑ । दा॒वने॑ ॥
कः । वः । महान्ति । महताम् । उत् । अश्नवत् । कः । काव्या । मरुतः । कः । ह । पौंस्या ।
यूयम् । ह । भूमिम् । किरणम् । न । रेजथ । प्र । यत् । भरध्वे । सुविताय । दावने ॥
káḥ ǀ vaḥ ǀ mahā́nti ǀ mahatā́m ǀ út ǀ aśnavat ǀ káḥ ǀ kā́vyā ǀ marutaḥ ǀ káḥ ǀ ha ǀ páuṃsyā ǀ
yūyám ǀ ha ǀ bhū́mim ǀ kiráṇam ǀ ná ǀ rejatha ǀ prá ǀ yát ǀ bháradhve ǀ suvitā́ya ǀ dāváne ǁ
kaḥ ǀ vaḥ ǀ mahānti ǀ mahatām ǀ ut ǀ aśnavat ǀ kaḥ ǀ kāvyā ǀ marutaḥ ǀ kaḥ ǀ ha ǀ pauṃsyā ǀ
yūyam ǀ ha ǀ bhūmim ǀ kiraṇam ǀ na ǀ rejatha ǀ pra ǀ yat ǀ bharadhve ǀ suvitāya ǀ dāvane ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.059.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.3.24.04
- Maṇḍala · Anuvāka · Ṛk
- 05.05.020
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Śyāvāśva Ātreya
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.