Ṛk 5.56.5
Saṃhitā
उत्ति॑ष्ठ नू॒नमे॑षां॒ स्तोमैः॒ समु॑क्षितानां ।
म॒रुतां॑ पुरु॒तम॒मपू॑र्व्यं॒ गवां॒ सर्ग॑मिव ह्वये ॥
उत् तिष्ठ नूनम् एषां स्तोमैः समुक्षितानाम् |
मरुताम् पुरुतमम् अपूर्व्यं गवां सर्गम् इव ह्वये ||
úttiṣṭha nūnámeṣām stómaiḥ sámukṣitānām ǀ
marútām purutámamápūrvyam gávām sárgamiva hvaye ǁ
ut tiṣṭha nūnam eṣāṃ stomaiḥ samukṣitānām |
marutām purutamam apūrvyaṃ gavāṃ sargam iva hvaye ||
Padapāṭha
उत् । ति॒ष्ठ॒ । नू॒नम् । ए॒षा॒म् । स्तोमैः॑ । सम्ऽउ॑क्षितानाम् ।
म॒रुता॑म् । पु॒रु॒ऽतम॑म् । अपू॑र्व्यम् । गवा॑म् । सर्ग॑म्ऽइव । ह्व॒ये॒ ॥
उत् । तिष्ठ । नूनम् । एषाम् । स्तोमैः । सम्ऽउक्षितानाम् ।
मरुताम् । पुरुऽतमम् । अपूर्व्यम् । गवाम् । सर्गम्ऽइव । ह्वये ॥
út ǀ tiṣṭha ǀ nūnám ǀ eṣām ǀ stómaiḥ ǀ sám-ukṣitānām ǀ
marútām ǀ puru-támam ǀ ápūrvyam ǀ gávām ǀ sárgam-iva ǀ hvaye ǁ
ut ǀ tiṣṭha ǀ nūnam ǀ eṣām ǀ stomaiḥ ǀ sam-ukṣitānām ǀ
marutām ǀ puru-tamam ǀ apūrvyam ǀ gavām ǀ sargam-iva ǀ hvaye ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.056.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.3.19.05
- Maṇḍala · Anuvāka · Ṛk
- 05.04.119
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Śyāvāśva Ātreya
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.