Ṛk 5.46.7
Saṃhitā
दे॒वानां॒ पत्नी॑रुश॒तीर॑वंतु नः॒ प्रावं॑तु नस्तु॒जये॒ वाज॑सातये ।
याः पार्थि॑वासो॒ या अ॒पामपि॑ व्र॒ते ता नो॑ देवीः सुहवाः॒ शर्म॑ यच्छत ॥
देवानाम् पत्नीर् उशतीर् अवन्तु नः प्रावन्तु नस् तुजये वाजसातये |
याः पार्थिवासो या अपाम् अपि व्रते ता नो देवीः सुहवाः शर्म यच्छत ||
devā́nām pátnīruśatī́ravantu naḥ prā́vantu nastujáye vā́jasātaye ǀ
yā́ḥ pā́rthivāso yā́ apā́mápi vraté tā́ no devīḥ suhavāḥ śárma yacchata ǁ
devānām patnīr uśatīr avantu naḥ prāvantu nas tujaye vājasātaye |
yāḥ pārthivāso yā apām api vrate tā no devīḥ suhavāḥ śarma yacchata ||
Padapāṭha
दे॒वाना॑म् । पत्नीः॑ । उ॒श॒तीः । अ॒व॒न्तु॒ । नः॒ । प्र । अ॒व॒न्तु॒ । नः॒ । तु॒जये॑ । वाज॑ऽसातये ।
याः । पार्थि॑वासः । याः । अ॒पाम् । अपि॑ । व्र॒ते । ताः । नः॒ । दे॒वीः॒ । सु॒ऽह॒वाः॒ । शर्म॑ । य॒च्छ॒त॒ ॥
देवानाम् । पत्नीः । उशतीः । अवन्तु । नः । प्र । अवन्तु । नः । तुजये । वाजऽसातये ।
याः । पार्थिवासः । याः । अपाम् । अपि । व्रते । ताः । नः । देवीः । सुऽहवाः । शर्म । यच्छत ॥
devā́nām ǀ pátnīḥ ǀ uśatī́ḥ ǀ avantu ǀ naḥ ǀ prá ǀ avantu ǀ naḥ ǀ tujáye ǀ vā́ja-sātaye ǀ
yā́ḥ ǀ pā́rthivāsaḥ ǀ yā́ḥ ǀ apā́m ǀ ápi ǀ vraté ǀ tā́ḥ ǀ naḥ ǀ devīḥ ǀ su-havāḥ ǀ śárma ǀ yacchata ǁ
devānām ǀ patnīḥ ǀ uśatīḥ ǀ avantu ǀ naḥ ǀ pra ǀ avantu ǀ naḥ ǀ tujaye ǀ vāja-sātaye ǀ
yāḥ ǀ pārthivāsaḥ ǀ yāḥ ǀ apām ǀ api ǀ vrate ǀ tāḥ ǀ naḥ ǀ devīḥ ǀ su-havāḥ ǀ śarma ǀ yacchata ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.046.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.2.28.07
- Maṇḍala · Anuvāka · Ṛk
- 05.04.018
- Devatā देवता
- 1-6: Viśvedevās; 7, 8: God’s Wives
- Ṛṣi ऋषि
- Pratikṣatra Ātreya
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.