Ṛk 5.46.8
Saṃhitā
उ॒त ग्ना व्यं॑तु दे॒वप॑त्नीरिंद्रा॒ण्य१॒॑ग्नाय्य॒श्विनी॒ राट् ।
आ रोद॑सी वरुणा॒नी शृ॑णोतु॒ व्यंतु॑ दे॒वीर्य ऋ॒तुर्जनी॑नां ॥
उत ग्ना व्यन्तु देवपत्नीर् इन्द्राण्य् अग्नाय्य् अश्विनी राट् |
आ रोदसी वरुणानी शृणोतु व्यन्तु देवीर् य ऋतुर् जनीनाम् ||
utá gnā́ vyantu devápatnīrindrāṇyágnā́yyaśvínī rā́ṭ ǀ
ā́ ródasī varuṇānī́ śṛṇotu vyántu devī́ryá ṛtúrjánīnām ǁ
uta gnā vyantu devapatnīr indrāṇy agnāyy aśvinī rāṭ |
ā rodasī varuṇānī śṛṇotu vyantu devīr ya ṛtur janīnām ||
Padapāṭha
उ॒त । ग्नाः । व्य॒न्तु॒ । दे॒वऽप॑त्नीः । इ॒न्द्रा॒णी । अ॒ग्नायी॑ । अ॒श्विनी॑ । राट् ।
आ । रोद॑सी॒ इति॑ । व॒रु॒णा॒नी । शृ॒णो॒तु॒ । व्यन्तु॑ । दे॒वीः । यः । ऋ॒तुः । जनी॑नाम् ॥
उत । ग्नाः । व्यन्तु । देवऽपत्नीः । इन्द्राणी । अग्नायी । अश्विनी । राट् ।
आ । रोदसी इति । वरुणानी । शृणोतु । व्यन्तु । देवीः । यः । ऋतुः । जनीनाम् ॥
utá ǀ gnā́ḥ ǀ vyantu ǀ devá-patnīḥ ǀ indrāṇī́ ǀ agnā́yī ǀ aśvínī ǀ rā́ṭ ǀ
ā́ ǀ ródasī íti ǀ varuṇānī́ ǀ śṛṇotu ǀ vyántu ǀ devī́ḥ ǀ yáḥ ǀ ṛtúḥ ǀ jánīnām ǁ
uta ǀ gnāḥ ǀ vyantu ǀ deva-patnīḥ ǀ indrāṇī ǀ agnāyī ǀ aśvinī ǀ rāṭ ǀ
ā ǀ rodasī iti ǀ varuṇānī ǀ śṛṇotu ǀ vyantu ǀ devīḥ ǀ yaḥ ǀ ṛtuḥ ǀ janīnām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.046.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.2.28.08
- Maṇḍala · Anuvāka · Ṛk
- 05.04.019
- Devatā देवता
- 1-6: Viśvedevās; 7, 8: God’s Wives
- Ṛṣi ऋषि
- Pratikṣatra Ātreya
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.