Ṛk 5.46.6
Saṃhitā
उ॒त त्ये नः॒ पर्व॑तासः सुश॒स्तयः॑ सुदी॒तयो॑ न॒द्य१॒॑स्त्राम॑णे भुवन् ।
भगो॑ विभ॒क्ता शव॒साव॒सा ग॑मदुरु॒व्यचा॒ अदि॑तिः श्रोतु मे॒ हवं॑ ॥
उत त्ये नः पर्वतासः सुशस्तयः सुदीतयो नद्यस् त्रामणे भुवन् |
भगो विभक्ता शवसावसा गमद् उरुव्यचा अदितिः श्रोतु मे हवम् ||
utá tyé naḥ párvatāsaḥ suśastáyaḥ sudītáyo nadyástrā́maṇe bhuvan ǀ
bhágo vibhaktā́ śávasā́vasā́ gamaduruvyácā áditiḥ śrotu me hávam ǁ
uta tye naḥ parvatāsaḥ suśastayaḥ sudītayo nadyas trāmaṇe bhuvan |
bhago vibhaktā śavasāvasā gamad uruvyacā aditiḥ śrotu me havam ||
Padapāṭha
उ॒त । त्ये । नः॒ । पर्व॑तासः । सु॒ऽश॒स्तयः॑ । सु॒ऽदी॒तयः॑ । न॒द्यः॑ । त्राम॑णे । भु॒व॒न् ।
भगः॑ । वि॒ऽभ॒क्ता । शव॑सा । अव॑सा । आ । ग॒म॒त् । उ॒रु॒ऽव्यचाः॑ । अदि॑तिः । श्रो॒तु॒ । मे॒ । हव॑म् ॥
उत । त्ये । नः । पर्वतासः । सुऽशस्तयः । सुऽदीतयः । नद्यः । त्रामणे । भुवन् ।
भगः । विऽभक्ता । शवसा । अवसा । आ । गमत् । उरुऽव्यचाः । अदितिः । श्रोतु । मे । हवम् ॥
utá ǀ tyé ǀ naḥ ǀ párvatāsaḥ ǀ su-śastáyaḥ ǀ su-dītáyaḥ ǀ nadyáḥ ǀ trā́maṇe ǀ bhuvan ǀ
bhágaḥ ǀ vi-bhaktā́ ǀ śávasā ǀ ávasā ǀ ā́ ǀ gamat ǀ uru-vyácāḥ ǀ áditiḥ ǀ śrotu ǀ me ǀ hávam ǁ
uta ǀ tye ǀ naḥ ǀ parvatāsaḥ ǀ su-śastayaḥ ǀ su-dītayaḥ ǀ nadyaḥ ǀ trāmaṇe ǀ bhuvan ǀ
bhagaḥ ǀ vi-bhaktā ǀ śavasā ǀ avasā ǀ ā ǀ gamat ǀ uru-vyacāḥ ǀ aditiḥ ǀ śrotu ǀ me ǀ havam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.046.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.2.28.06
- Maṇḍala · Anuvāka · Ṛk
- 05.04.017
- Devatā देवता
- 1-6: Viśvedevās; 7, 8: God’s Wives
- Ṛṣi ऋषि
- Pratikṣatra Ātreya
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.