Ṛk 5.46.5
Saṃhitā
उ॒त त्यन्नो॒ मारु॑तं॒ शर्ध॒ आ ग॑मद्दिविक्ष॒यं य॑ज॒तं ब॒र्हिरा॒सदे॑ ।
बृह॒स्पतिः॒ शर्म॑ पू॒षोत नो॑ यमद्वरू॒थ्यं१॒॑ वरु॑णो मि॒त्रो अ॑र्य॒मा ॥
उत त्यन् नो मारुतं शर्ध आ गमद् दिविक्षयं यजतम् बर्हिर् आसदे |
बृहस्पतिः शर्म पूषोत नो यमद् वरूथ्यं वरुणो मित्रो अर्यमा ||
utá tyánno mā́rutam śárdha ā́ gamaddivikṣayám yajatám barhírāsáde ǀ
bṛ́haspátiḥ śárma pūṣótá no yamadvarūthyám váruṇo mitró aryamā́ ǁ
uta tyan no mārutaṃ śardha ā gamad divikṣayaṃ yajatam barhir āsade |
bṛhaspatiḥ śarma pūṣota no yamad varūthyaṃ varuṇo mitro aryamā ||
Padapāṭha
उ॒त । त्यम् । नः॒ । मारु॑तम् । शर्धः॑ । आ । ग॒म॒त् । दि॒वि॒ऽक्ष॒यम् । य॒ज॒तम् । ब॒र्हिः । आ॒ऽसदे॑ ।
बृह॒स्पतिः॑ । शर्म॑ । पू॒षा । उ॒त । नः॒ । य॒म॒त् । व॒रू॒थ्य॑म् । वरु॑णः । मि॒त्रः । अ॒र्य॒मा ॥
उत । त्यम् । नः । मारुतम् । शर्धः । आ । गमत् । दिविऽक्षयम् । यजतम् । बर्हिः । आऽसदे ।
बृहस्पतिः । शर्म । पूषा । उत । नः । यमत् । वरूथ्यम् । वरुणः । मित्रः । अर्यमा ॥
utá ǀ tyám ǀ naḥ ǀ mā́rutam ǀ śárdhaḥ ǀ ā́ ǀ gamat ǀ divi-kṣayám ǀ yajatám ǀ barhíḥ ǀ ā-sáde ǀ
bṛ́haspátiḥ ǀ śárma ǀ pūṣā́ ǀ utá ǀ naḥ ǀ yamat ǀ varūthyám ǀ váruṇaḥ ǀ mitráḥ ǀ aryamā́ ǁ
uta ǀ tyam ǀ naḥ ǀ mārutam ǀ śardhaḥ ǀ ā ǀ gamat ǀ divi-kṣayam ǀ yajatam ǀ barhiḥ ǀ ā-sade ǀ
bṛhaspatiḥ ǀ śarma ǀ pūṣā ǀ uta ǀ naḥ ǀ yamat ǀ varūthyam ǀ varuṇaḥ ǀ mitraḥ ǀ aryamā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.046.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.2.28.05
- Maṇḍala · Anuvāka · Ṛk
- 05.04.016
- Devatā देवता
- 1-6: Viśvedevās; 7, 8: God’s Wives
- Ṛṣi ऋषि
- Pratikṣatra Ātreya
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.