Ṛk 5.46.4
Saṃhitā
उ॒त नो॒ विष्णु॑रु॒त वातो॑ अ॒स्रिधो॑ द्रविणो॒दा उ॒त सोमो॒ मय॑स्करत् ।
उ॒त ऋ॒भव॑ उ॒त रा॒ये नो॑ अ॒श्विनो॒त त्वष्टो॒त विभ्वानु॑ मंसते ॥
उत नो विष्णुर् उत वातो अस्रिधो द्रविणोदा उत सोमो मयस् करत् |
उत ऋभव उत राये नो अश्विनोत त्वष्टोत विभ्वानु मंसते ||
utá no víṣṇurutá vā́to asrídho draviṇodā́ utá sómo máyaskarat ǀ
utá ṛbháva utá rāyé no aśvínotá tváṣṭotá víbhvā́nu maṃsate ǁ
uta no viṣṇur uta vāto asridho draviṇodā uta somo mayas karat |
uta ṛbhava uta rāye no aśvinota tvaṣṭota vibhvānu maṃsate ||
Padapāṭha
उ॒त । नः॒ । विष्णुः॑ । उ॒त । वातः॑ । अ॒स्रिधः॑ । द्र॒वि॒णः॒ऽदाः । उ॒त । सोमः॑ । मयः॑ । क॒र॒त् ।
उ॒त । ऋ॒भवः॑ । उ॒त । रा॒ये । नः॒ । अ॒श्विना॑ । उ॒त । त्वष्टा॑ । उ॒त । विऽभ्वा॑ । अनु॑ । मं॒स॒ते॒ ॥
उत । नः । विष्णुः । उत । वातः । अस्रिधः । द्रविणःऽदाः । उत । सोमः । मयः । करत् ।
उत । ऋभवः । उत । राये । नः । अश्विना । उत । त्वष्टा । उत । विऽभ्वा । अनु । मंसते ॥
utá ǀ naḥ ǀ víṣṇuḥ ǀ utá ǀ vā́taḥ ǀ asrídhaḥ ǀ draviṇaḥ-dā́ḥ ǀ utá ǀ sómaḥ ǀ máyaḥ ǀ karat ǀ
utá ǀ ṛbhávaḥ ǀ utá ǀ rāyé ǀ naḥ ǀ aśvínā ǀ utá ǀ tváṣṭā ǀ utá ǀ ví-bhvā ǀ ánu ǀ maṃsate ǁ
uta ǀ naḥ ǀ viṣṇuḥ ǀ uta ǀ vātaḥ ǀ asridhaḥ ǀ draviṇaḥ-dāḥ ǀ uta ǀ somaḥ ǀ mayaḥ ǀ karat ǀ
uta ǀ ṛbhavaḥ ǀ uta ǀ rāye ǀ naḥ ǀ aśvinā ǀ uta ǀ tvaṣṭā ǀ uta ǀ vi-bhvā ǀ anu ǀ maṃsate ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.046.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.2.28.04
- Maṇḍala · Anuvāka · Ṛk
- 05.04.015
- Devatā देवता
- 1-6: Viśvedevās; 7, 8: God’s Wives
- Ṛṣi ऋषि
- Pratikṣatra Ātreya
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.