Ṛk 5.41.10
Saṃhitā
वृष्णो॑ अस्तोषि भू॒म्यस्य॒ गर्भं॑ त्रि॒तो नपा॑तम॒पां सु॑वृ॒क्ति ।
गृ॒णी॒ते अ॒ग्निरे॒तरी॒ न शू॒षैः शो॒चिष्के॑शो॒ नि रि॑णाति॒ वना॑ ॥
वृष्णो अस्तोषि भूम्यस्य गर्भं त्रितो नपातम् अपां सुवृक्ति |
गृणीते अग्निर् एतरी न शूषैः शोचिष्केशो नि रिणाति वना ||
vṛ́ṣṇo astoṣi bhūmyásya gárbham tritó nápātamapā́m suvṛktí ǀ
gṛṇīté agníretárī ná śūṣáiḥ śocíṣkeśo ní riṇāti vánā ǁ
vṛṣṇo astoṣi bhūmyasya garbhaṃ trito napātam apāṃ suvṛkti |
gṛṇīte agnir etarī na śūṣaiḥ śociṣkeśo ni riṇāti vanā ||
Padapāṭha
वृष्णः॑ । अ॒स्तो॒षि॒ । भू॒म्यस्य॑ । गर्भ॑म् । त्रि॒तः । नपा॑तम् । अ॒पाम् । सु॒ऽवृ॒क्ति ।
गृ॒णी॒ते । अ॒ग्निः । ए॒तरि॑ । न । शू॒षैः । शो॒चिःऽके॑शः । नि । रि॒णा॒ति॒ । वना॑ ॥
वृष्णः । अस्तोषि । भूम्यस्य । गर्भम् । त्रितः । नपातम् । अपाम् । सुऽवृक्ति ।
गृणीते । अग्निः । एतरि । न । शूषैः । शोचिःऽकेशः । नि । रिणाति । वना ॥
vṛ́ṣṇaḥ ǀ astoṣi ǀ bhūmyásya ǀ gárbham ǀ tritáḥ ǀ nápātam ǀ apā́m ǀ su-vṛktí ǀ
gṛṇīté ǀ agníḥ ǀ etári ǀ ná ǀ śūṣáiḥ ǀ śocíḥ-keśaḥ ǀ ní ǀ riṇāti ǀ vánā ǁ
vṛṣṇaḥ ǀ astoṣi ǀ bhūmyasya ǀ garbham ǀ tritaḥ ǀ napātam ǀ apām ǀ su-vṛkti ǀ
gṛṇīte ǀ agniḥ ǀ etari ǀ na ǀ śūṣaiḥ ǀ śociḥ-keśaḥ ǀ ni ǀ riṇāti ǀ vanā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.041.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.2.14.05
- Maṇḍala · Anuvāka · Ṛk
- 05.03.067
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Atri Bhauma
- Chandas छन्दस्
- Triṣṭubh, Atijagatī, Ekapadā Virāj
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.