Ṛk 5.41.11
Saṃhitā
क॒था म॒हे रु॒द्रिया॑य ब्रवाम॒ कद्रा॒ये चि॑कि॒तुषे॒ भगा॑य ।
आप॒ ओष॑धीरु॒त नो॑ऽवंतु॒ द्यौर्वना॑ गि॒रयो॑ वृ॒क्षके॑शाः ॥
कथा महे रुद्रियाय ब्रवाम कद् राये चिकितुषे भगाय |
आप ओषधीर् उत नो ऽवन्तु द्यौर् वना गिरयो वृक्षकेशाः ||
kathā́ mahé rudríyāya bravāma kádrāyé cikitúṣe bhágāya ǀ
ā́pa óṣadhīrutá no’vantu dyáurvánā giráyo vṛkṣákeśāḥ ǁ
kathā mahe rudriyāya bravāma kad rāye cikituṣe bhagāya |
āpa oṣadhīr uta no 'vantu dyaur vanā girayo vṛkṣakeśāḥ ||
Padapāṭha
क॒था । म॒हे । रु॒द्रिया॑य । ब्र॒वा॒म॒ । कत् । रा॒ये । चि॒कि॒तुषे॑ । भगा॑य ।
आपः॑ । ओष॑धीः । उ॒त । नः॒ । अ॒व॒न्तु॒ । द्यौः । वना॑ । गि॒रयः॑ । वृ॒क्षऽके॑शाः ॥
कथा । महे । रुद्रियाय । ब्रवाम । कत् । राये । चिकितुषे । भगाय ।
आपः । ओषधीः । उत । नः । अवन्तु । द्यौः । वना । गिरयः । वृक्षऽकेशाः ॥
kathā́ ǀ mahé ǀ rudríyāya ǀ bravāma ǀ kát ǀ rāyé ǀ cikitúṣe ǀ bhágāya ǀ
ā́paḥ ǀ óṣadhīḥ ǀ utá ǀ naḥ ǀ avantu ǀ dyáuḥ ǀ vánā ǀ giráyaḥ ǀ vṛkṣá-keśāḥ ǁ
kathā ǀ mahe ǀ rudriyāya ǀ bravāma ǀ kat ǀ rāye ǀ cikituṣe ǀ bhagāya ǀ
āpaḥ ǀ oṣadhīḥ ǀ uta ǀ naḥ ǀ avantu ǀ dyauḥ ǀ vanā ǀ girayaḥ ǀ vṛkṣa-keśāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.041.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.2.15.01
- Maṇḍala · Anuvāka · Ṛk
- 05.03.068
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Atri Bhauma
- Chandas छन्दस्
- Triṣṭubh, Atijagatī, Ekapadā Virāj
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.