Ṛk 5.61.5
Saṃhitā
सन॒त्साश्व्यं॑ प॒शुमु॒त गव्यं॑ श॒ताव॑यं ।
श्या॒वाश्व॑स्तुताय॒ या दोर्वी॒रायो॑प॒बर्बृ॑हत् ॥
सनत् साश्व्यम् पशुम् उत गव्यं शतावयम् |
श्यावाश्वस्तुताय या दोर् वीरायोपबर्बृहत् ||
sánatsā́śvyam paśúmutá gávyam śatā́vayam ǀ
śyāvā́śvastutāya yā́ dórvīrā́yopabárbṛhat ǁ
sanat sāśvyam paśum uta gavyaṃ śatāvayam |
śyāvāśvastutāya yā dor vīrāyopabarbṛhat ||
Padapāṭha
सन॑त् । सा । अश्व्य॑म् । प॒शुम् । उ॒त । गव्य॑म् । श॒तऽअ॑वयम् ।
श्या॒वाश्व॑ऽस्तुताय । या । दोः । वी॒राय॑ । उ॒प॒ऽबर्बृ॑हत् ॥
सनत् । सा । अश्व्यम् । पशुम् । उत । गव्यम् । शतऽअवयम् ।
श्यावाश्वऽस्तुताय । या । दोः । वीराय । उपऽबर्बृहत् ॥
sánat ǀ sā́ ǀ áśvyam ǀ paśúm ǀ utá ǀ gávyam ǀ śatá-avayam ǀ
śyāvā́śva-stutāya ǀ yā́ ǀ dóḥ ǀ vīrā́ya ǀ upa-bárbṛhat ǁ
sanat ǀ sā ǀ aśvyam ǀ paśum ǀ uta ǀ gavyam ǀ śata-avayam ǀ
śyāvāśva-stutāya ǀ yā ǀ doḥ ǀ vīrāya ǀ upa-barbṛhat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.061.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.3.26.05
- Maṇḍala · Anuvāka · Ṛk
- 05.05.037
- Devatā देवता
- 1-4, 11-16: Maruts; 5-8: Śaśīyasī Tarantamahiṣī; 9: Purumīḷha Vaidadaśvī; 10: Taranto Vaidadaśviḥ; 17-19: Rathavīti Dārbhya
- Ṛṣi ऋषि
- Śyāvāśva Ātreya
- Chandas छन्दस्
- Gāyatrī, Anuṣṭubh, Satobṛhatī
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.