Ṛk 5.77.4
Saṃhitā
यो भूयि॑ष्ठं॒ नास॑त्याभ्यां वि॒वेष॒ चनि॑ष्ठं पि॒त्वो रर॑ते विभा॒गे ।
स तो॒कम॑स्य पीपर॒च्छमी॑भि॒रनू॑र्ध्वभासः॒ सद॒मित्तु॑तुर्यात् ॥
यो भूयिष्ठं नासत्याभ्यां विवेष चनिष्ठम् पित्वो ररते विभागे |
स तोकम् अस्य पीपरच् छमीभिर् अनूर्ध्वभासः सदम् इत् तुतुर्यात् ||
yó bhū́yiṣṭham nā́satyābhyām vivéṣa cániṣṭham pitvó rárate vibhāgé ǀ
sá tokámasya pīparacchámībhiránūrdhvabhāsaḥ sádamíttuturyāt ǁ
yo bhūyiṣṭhaṃ nāsatyābhyāṃ viveṣa caniṣṭham pitvo rarate vibhāge |
sa tokam asya pīparac chamībhir anūrdhvabhāsaḥ sadam it tuturyāt ||
Padapāṭha
यः । भूयि॑ष्ठम् । नास॑त्याभ्याम् । वि॒वेष॑ । चनि॑ष्ठम् । पि॒त्वः । रर॑ते । वि॒ऽभा॒गे ।
सः । तो॒कम् । अ॒स्य॒ । पी॒प॒र॒त् । शमी॑भिः । अनू॑र्ध्वऽभासः । सद॑म् । इत् । तु॒तु॒र्या॒त् ॥
यः । भूयिष्ठम् । नासत्याभ्याम् । विवेष । चनिष्ठम् । पित्वः । ररते । विऽभागे ।
सः । तोकम् । अस्य । पीपरत् । शमीभिः । अनूर्ध्वऽभासः । सदम् । इत् । तुतुर्यात् ॥
yáḥ ǀ bhū́yiṣṭham ǀ nā́satyābhyām ǀ vivéṣa ǀ cániṣṭham ǀ pitváḥ ǀ rárate ǀ vi-bhāgé ǀ
sáḥ ǀ tokám ǀ asya ǀ pīparat ǀ śámībhiḥ ǀ ánūrdhva-bhāsaḥ ǀ sádam ǀ ít ǀ tuturyāt ǁ
yaḥ ǀ bhūyiṣṭham ǀ nāsatyābhyām ǀ viveṣa ǀ caniṣṭham ǀ pitvaḥ ǀ rarate ǀ vi-bhāge ǀ
saḥ ǀ tokam ǀ asya ǀ pīparat ǀ śamībhiḥ ǀ anūrdhva-bhāsaḥ ǀ sadam ǀ it ǀ tuturyāt ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.077.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.4.18.04
- Maṇḍala · Anuvāka · Ṛk
- 05.06.038
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Atri Bhauma
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.