Ṛk 5.37.4
Saṃhitā
न स राजा॑ व्यथते॒ यस्मि॒न्निंद्र॑स्ती॒व्रं सोमं॒ पिब॑ति॒ गोस॑खायं ।
आ स॑त्व॒नैरज॑ति॒ हंति॑ वृ॒त्रं क्षेति॑ क्षि॒तीः सु॒भगो॒ नाम॒ पुष्य॑न् ॥
न स राजा व्यथते यस्मिन्न् इन्द्रस् तीव्रं सोमम् पिबति गोसखायम् |
आ सत्वनैर् अजति हन्ति वृत्रं क्षेति क्षितीः सुभगो नाम पुष्यन् ||
ná sá rā́jā vyathate yásminníndrastīvrám sómam píbati gósakhāyam ǀ
ā́ satvanáirájati hánti vṛtrám kṣéti kṣitī́ḥ subhágo nā́ma púṣyan ǁ
na sa rājā vyathate yasminn indras tīvraṃ somam pibati gosakhāyam |
ā satvanair ajati hanti vṛtraṃ kṣeti kṣitīḥ subhago nāma puṣyan ||
Padapāṭha
न । सः । राजा॑ । व्य॒थ॒ते॒ । यस्मि॑न् । इन्द्रः॑ । ती॒व्रम् । सोम॑म् । पिब॑ति । गोऽस॑खायम् ।
आ । स॒त्व॒नैः । अज॑ति । हन्ति॑ । वृ॒त्रम् । क्षेति॑ । क्षि॒तीः । सु॒ऽभगः॑ । नाम॑ । पुष्य॑न् ॥
न । सः । राजा । व्यथते । यस्मिन् । इन्द्रः । तीव्रम् । सोमम् । पिबति । गोऽसखायम् ।
आ । सत्वनैः । अजति । हन्ति । वृत्रम् । क्षेति । क्षितीः । सुऽभगः । नाम । पुष्यन् ॥
ná ǀ sáḥ ǀ rā́jā ǀ vyathate ǀ yásmin ǀ índraḥ ǀ tīvrám ǀ sómam ǀ píbati ǀ gó-sakhāyam ǀ
ā́ ǀ satvanáiḥ ǀ ájati ǀ hánti ǀ vṛtrám ǀ kṣéti ǀ kṣitī́ḥ ǀ su-bhágaḥ ǀ nā́ma ǀ púṣyan ǁ
na ǀ saḥ ǀ rājā ǀ vyathate ǀ yasmin ǀ indraḥ ǀ tīvram ǀ somam ǀ pibati ǀ go-sakhāyam ǀ
ā ǀ satvanaiḥ ǀ ajati ǀ hanti ǀ vṛtram ǀ kṣeti ǀ kṣitīḥ ǀ su-bhagaḥ ǀ nāma ǀ puṣyan ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.037.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.2.08.04
- Maṇḍala · Anuvāka · Ṛk
- 05.03.037
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Atri Bhauma
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.