Ṛk 5.66.2
Saṃhitā
ता हि क्ष॒त्रमवि॑ह्रुतं स॒म्यग॑सु॒र्य१॒॑माशा॑ते ।
अध॑ व्र॒तेव॒ मानु॑षं॒ स्व१॒॑र्ण धा॑यि दर्श॒तं ॥
ता हि क्षत्रम् अविह्रुतं सम्यग् असुर्यम् आशाते |
अध व्रतेव मानुषं स्वर् ण धायि दर्शतम् ||
tā́ hí kṣatrámávihrutam samyágasuryámā́śāte ǀ
ádha vratéva mā́nuṣam svárṇá dhāyi darśatám ǁ
tā hi kṣatram avihrutaṃ samyag asuryam āśāte |
adha vrateva mānuṣaṃ svar ṇa dhāyi darśatam ||
Padapāṭha
ता । हि । क्ष॒त्रम् । अवि॑ऽह्रुतम् । स॒म्यक् । अ॒सु॒र्य॑म् । आशा॑ते॒ इति॑ ।
अध॑ । व्र॒ताऽइ॑व । मानु॑षम् । स्वः॑ । न । धा॒यि॒ । द॒र्श॒तम् ॥
ता । हि । क्षत्रम् । अविऽह्रुतम् । सम्यक् । असुर्यम् । आशाते इति ।
अध । व्रताऽइव । मानुषम् । स्वः । न । धायि । दर्शतम् ॥
tā́ ǀ hí ǀ kṣatrám ǀ ávi-hrutam ǀ samyák ǀ asuryám ǀ ā́śāte íti ǀ
ádha ǀ vratā́-iva ǀ mā́nuṣam ǀ sváḥ ǀ ná ǀ dhāyi ǀ darśatám ǁ
tā ǀ hi ǀ kṣatram ǀ avi-hrutam ǀ samyak ǀ asuryam ǀ āśāte iti ǀ
adha ǀ vratā-iva ǀ mānuṣam ǀ svaḥ ǀ na ǀ dhāyi ǀ darśatam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.066.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.4.04.02
- Maṇḍala · Anuvāka · Ṛk
- 05.05.082
- Devatā देवता
- Mitra, Varuṇa
- Ṛṣi ऋषि
- Rātahavya Ātreya
- Chandas छन्दस्
- Anuṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.