Ṛk 5.66.3
Saṃhitā
ता वा॒मेषे॒ रथा॑नामु॒र्वीं गव्यू॑तिमेषां ।
रा॒तह॑व्यस्य सुष्टु॒तिं द॒धृक्स्तोमै॑र्मनामहे ॥
ता वाम् एषे रथानाम् उर्वीं गव्यूतिम् एषाम् |
रातहव्यस्य सुष्टुतिं दधृक् स्तोमैर् मनामहे ||
tā́ vāméṣe ráthānāmurvī́m gávyūtimeṣām ǀ
rātáhavyasya suṣṭutím dadhṛ́kstómairmanāmahe ǁ
tā vām eṣe rathānām urvīṃ gavyūtim eṣām |
rātahavyasya suṣṭutiṃ dadhṛk stomair manāmahe ||
Padapāṭha
ता । वा॒म् । एषे॑ । रथा॑नाम् । उ॒र्वीम् । गव्यू॑तिम् । ए॒षा॒म् ।
रा॒तऽह॑व्यस्य । सु॒ऽस्तु॒तिम् । द॒धृक् । स्तोमैः॑ । म॒ना॒म॒हे॒ ॥
ता । वाम् । एषे । रथानाम् । उर्वीम् । गव्यूतिम् । एषाम् ।
रातऽहव्यस्य । सुऽस्तुतिम् । दधृक् । स्तोमैः । मनामहे ॥
tā́ ǀ vām ǀ éṣe ǀ ráthānām ǀ urvī́m ǀ gávyūtim ǀ eṣām ǀ
rātá-havyasya ǀ su-stutím ǀ dadhṛ́k ǀ stómaiḥ ǀ manāmahe ǁ
tā ǀ vām ǀ eṣe ǀ rathānām ǀ urvīm ǀ gavyūtim ǀ eṣām ǀ
rāta-havyasya ǀ su-stutim ǀ dadhṛk ǀ stomaiḥ ǀ manāmahe ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.066.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.4.04.03
- Maṇḍala · Anuvāka · Ṛk
- 05.05.083
- Devatā देवता
- Mitra, Varuṇa
- Ṛṣi ऋषि
- Rātahavya Ātreya
- Chandas छन्दस्
- Anuṣṭubh
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.