Ṛk 5.83.8
Saṃhitā
म॒हांतं॒ कोश॒मुद॑चा॒ नि षिं॑च॒ स्यंदं॑तां कु॒ल्या विषि॑ताः पु॒रस्ता॑त् ।
घृ॒तेन॒ द्यावा॑पृथि॒वी व्युं॑धि सुप्रपा॒णं भ॑वत्व॒घ्न्याभ्यः॑ ॥
महान्तं कोशम् उद् अचा नि षिञ्च स्यन्दन्तां कुल्या विषिताः पुरस्तात् |
घृतेन द्यावापृथिवी व्य् उन्धि सुप्रपाणम् भवत्व् अघ्न्याभ्यः ||
mahā́ntam kóśamúdacā ní ṣiñca syándantām kulyā́ víṣitāḥ purástāt ǀ
ghṛténa dyā́vāpṛthivī́ vyúndhi suprapāṇám bhavatvaghnyā́bhyaḥ ǁ
mahāntaṃ kośam ud acā ni ṣiñca syandantāṃ kulyā viṣitāḥ purastāt |
ghṛtena dyāvāpṛthivī vy undhi suprapāṇam bhavatv aghnyābhyaḥ ||
Padapāṭha
म॒हान्त॑म् । कोश॑म् । उत् । अ॒च॒ । नि । सि॒ञ्च॒ । स्यन्द॑न्ताम् । कु॒ल्याः । विऽसि॑ताः । पु॒रस्ता॑त् ।
घृ॒तेन॑ । द्यावा॑पृथि॒वी इति॑ । वि । उ॒न्धि॒ । सु॒ऽप्र॒पा॒नम् । भ॒व॒तु॒ । अ॒घ्न्याभ्यः॑ ॥
महान्तम् । कोशम् । उत् । अच । नि । सिञ्च । स्यन्दन्ताम् । कुल्याः । विऽसिताः । पुरस्तात् ।
घृतेन । द्यावापृथिवी इति । वि । उन्धि । सुऽप्रपानम् । भवतु । अघ्न्याभ्यः ॥
mahā́ntam ǀ kóśam ǀ út ǀ aca ǀ ní ǀ siñca ǀ syándantām ǀ kulyā́ḥ ǀ ví-sitāḥ ǀ purástāt ǀ
ghṛténa ǀ dyā́vāpṛthivī́ íti ǀ ví ǀ undhi ǀ su-prapānám ǀ bhavatu ǀ aghnyā́bhyaḥ ǁ
mahāntam ǀ kośam ǀ ut ǀ aca ǀ ni ǀ siñca ǀ syandantām ǀ kulyāḥ ǀ vi-sitāḥ ǀ purastāt ǀ
ghṛtena ǀ dyāvāpṛthivī iti ǀ vi ǀ undhi ǀ su-prapānam ǀ bhavatu ǀ aghnyābhyaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.083.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.4.28.03
- Maṇḍala · Anuvāka · Ṛk
- 05.06.086
- Devatā देवता
- Parjanya
- Ṛṣi ऋषि
- Atri Bhauma
- Chandas छन्दस्
- Triṣṭubh, Jagatī, Anuṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.