Ṛk 5.83.2
Saṃhitā
वि वृ॒क्षान् हं॑त्यु॒त हं॑ति र॒क्षसो॒ विश्वं॑ बिभाय॒ भुव॑नं म॒हाव॑धात् ।
उ॒ताना॑गा ईषते॒ वृष्ण्या॑वतो॒ यत्प॒र्जन्यः॑ स्त॒नय॒न् हंति॑ दु॒ष्कृतः॑ ॥
वि वृक्षान् हन्त्य् उत हन्ति रक्षसो विश्वम् बिभाय भुवनम् महावधात् |
उतानागा ईषते वृष्ण्यावतो यत् पर्जन्य स्तनयन् हन्ति दुष्कृतः ||
ví vṛkṣā́n hantyutá hanti rakṣáso víśvam bibhāya bhúvanam mahā́vadhāt ǀ
utā́nāgā īṣate vṛ́ṣṇyāvato yátparjányaḥ stanáyan hánti duṣkṛ́taḥ ǁ
vi vṛkṣān hanty uta hanti rakṣaso viśvam bibhāya bhuvanam mahāvadhāt |
utānāgā īṣate vṛṣṇyāvato yat parjanya stanayan hanti duṣkṛtaḥ ||
Padapāṭha
वि । वृ॒क्षान् । ह॒न्ति॒ । उ॒त । ह॒न्ति॒ । र॒क्षसः॑ । विश्व॑म् । बि॒भा॒य॒ । भुव॑नम् । म॒हाऽव॑धात् ।
उ॒त । अना॑गाः । ई॒ष॒ते॒ । वृष्ण्य॑ऽवतः । यत् । प॒र्जन्यः॑ । स्त॒नय॑न् । हन्ति॑ । दुः॒ऽकृतः॑ ॥
वि । वृक्षान् । हन्ति । उत । हन्ति । रक्षसः । विश्वम् । बिभाय । भुवनम् । महाऽवधात् ।
उत । अनागाः । ईषते । वृष्ण्यऽवतः । यत् । पर्जन्यः । स्तनयन् । हन्ति । दुःऽकृतः ॥
ví ǀ vṛkṣā́n ǀ hanti ǀ utá ǀ hanti ǀ rakṣásaḥ ǀ víśvam ǀ bibhāya ǀ bhúvanam ǀ mahā́-vadhāt ǀ
utá ǀ ánāgāḥ ǀ īṣate ǀ vṛ́ṣṇya-vataḥ ǀ yát ǀ parjányaḥ ǀ stanáyan ǀ hánti ǀ duḥ-kṛ́taḥ ǁ
vi ǀ vṛkṣān ǀ hanti ǀ uta ǀ hanti ǀ rakṣasaḥ ǀ viśvam ǀ bibhāya ǀ bhuvanam ǀ mahā-vadhāt ǀ
uta ǀ anāgāḥ ǀ īṣate ǀ vṛṣṇya-vataḥ ǀ yat ǀ parjanyaḥ ǀ stanayan ǀ hanti ǀ duḥ-kṛtaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.083.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.4.27.02
- Maṇḍala · Anuvāka · Ṛk
- 05.06.080
- Devatā देवता
- Parjanya
- Ṛṣi ऋषि
- Atri Bhauma
- Chandas छन्दस्
- Triṣṭubh, Jagatī, Anuṣṭubh
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.