Ṛk 5.83.3
Saṃhitā
र॒थीव॒ कश॒याश्वाँ॑ अभिक्षि॒पन्ना॒विर्दू॒तान्कृ॑णुते व॒र्ष्याँ॒३॒॑ अह॑ ।
दू॒रात्सिं॒हस्य॑ स्त॒नथा॒ उदी॑रते॒ यत्प॒र्जन्यः॑ कृणु॒ते व॒र्ष्यं१॒॑ नभः॑ ॥
रथीव कशयाश्वां अभिक्षिपन्न् आविर् दूतान् कृणुते वर्ष्यां अह |
दूरात् सिंहस्य स्तनथा उद् ईरते यत् पर्जन्यः कृणुते वर्ष्यं नभः ||
rathī́va káśayā́śvām̐ abhikṣipánnāvírdūtā́nkṛṇute varṣyā́m̐ áha ǀ
dūrā́tsiṃhásya stanáthā údīrate yátparjányaḥ kṛṇuté varṣyám nábhaḥ ǁ
rathīva kaśayāśvāṃ abhikṣipann āvir dūtān kṛṇute varṣyāṃ aha |
dūrāt siṃhasya stanathā ud īrate yat parjanyaḥ kṛṇute varṣyaṃ nabhaḥ ||
Padapāṭha
र॒थीऽइ॑व । कश॑या । अश्वा॑न् । अ॒भि॒ऽक्षि॒पन् । आ॒विः । दू॒तान् । कृ॒णु॒ते॒ । व॒र्ष्या॑न् । अह॑ ।
दू॒रात् । सिं॒हस्य॑ । स्त॒नथाः॑ । उत् । ई॒र॒ते॒ । यत् । प॒र्जन्यः॑ । कृ॒णु॒ते । व॒र्ष्य॑म् । नभः॑ ॥
रथीऽइव । कशया । अश्वान् । अभिऽक्षिपन् । आविः । दूतान् । कृणुते । वर्ष्यान् । अह ।
दूरात् । सिंहस्य । स्तनथाः । उत् । ईरते । यत् । पर्जन्यः । कृणुते । वर्ष्यम् । नभः ॥
rathī́-iva ǀ káśayā ǀ áśvān ǀ abhi-kṣipán ǀ āvíḥ ǀ dūtā́n ǀ kṛṇute ǀ varṣyā́n ǀ áha ǀ
dūrā́t ǀ siṃhásya ǀ stanáthāḥ ǀ út ǀ īrate ǀ yát ǀ parjányaḥ ǀ kṛṇuté ǀ varṣyám ǀ nábhaḥ ǁ
rathī-iva ǀ kaśayā ǀ aśvān ǀ abhi-kṣipan ǀ āviḥ ǀ dūtān ǀ kṛṇute ǀ varṣyān ǀ aha ǀ
dūrāt ǀ siṃhasya ǀ stanathāḥ ǀ ut ǀ īrate ǀ yat ǀ parjanyaḥ ǀ kṛṇute ǀ varṣyam ǀ nabhaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.083.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.4.27.03
- Maṇḍala · Anuvāka · Ṛk
- 05.06.081
- Devatā देवता
- Parjanya
- Ṛṣi ऋषि
- Atri Bhauma
- Chandas छन्दस्
- Triṣṭubh, Jagatī, Anuṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.