Ṛk 5.55.8
Saṃhitā
यत्पू॒र्व्यं म॑रुतो॒ यच्च॒ नूत॑नं॒ यदु॒द्यते॑ वसवो॒ यच्च॑ श॒स्यते॑ ।
विश्व॑स्य॒ तस्य॑ भवथा॒ नवे॑दसः॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥
यत् पूर्व्यम् मरुतो यच् च नूतनं यद् उद्यते वसवो यच् च शस्यते |
विश्वस्य तस्य भवथा नवेदसः शुभं याताम् अनु रथा अवृत्सत ||
yátpūrvyám maruto yácca nū́tanam yádudyáte vasavo yácca śasyáte ǀ
víśvasya tásya bhavathā návedasaḥ śúbham yātā́mánu ráthā avṛtsata ǁ
yat pūrvyam maruto yac ca nūtanaṃ yad udyate vasavo yac ca śasyate |
viśvasya tasya bhavathā navedasaḥ śubhaṃ yātām anu rathā avṛtsata ||
Padapāṭha
यत् । पू॒र्व्यम् । म॒रु॒तः॒ । यत् । च॒ । नूत॑नम् । यत् । उ॒द्यते॑ । व॒स॒वः॒ । यत् । च॒ । श॒स्यते॑ ।
विश्व॑स्य । तस्य॑ । भ॒व॒थ॒ । नवे॑दसः । शुभ॑म् । या॒ताम् । अनु॑ । रथाः॑ । अ॒वृ॒त्स॒त॒ ॥
यत् । पूर्व्यम् । मरुतः । यत् । च । नूतनम् । यत् । उद्यते । वसवः । यत् । च । शस्यते ।
विश्वस्य । तस्य । भवथ । नवेदसः । शुभम् । याताम् । अनु । रथाः । अवृत्सत ॥
yát ǀ pūrvyám ǀ marutaḥ ǀ yát ǀ ca ǀ nū́tanam ǀ yát ǀ udyáte ǀ vasavaḥ ǀ yát ǀ ca ǀ śasyáte ǀ
víśvasya ǀ tásya ǀ bhavatha ǀ návedasaḥ ǀ śúbham ǀ yātā́m ǀ ánu ǀ ráthāḥ ǀ avṛtsata ǁ
yat ǀ pūrvyam ǀ marutaḥ ǀ yat ǀ ca ǀ nūtanam ǀ yat ǀ udyate ǀ vasavaḥ ǀ yat ǀ ca ǀ śasyate ǀ
viśvasya ǀ tasya ǀ bhavatha ǀ navedasaḥ ǀ śubham ǀ yātām ǀ anu ǀ rathāḥ ǀ avṛtsata ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.055.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.3.18.03
- Maṇḍala · Anuvāka · Ṛk
- 05.04.112
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Śyāvāśva Ātreya
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.