Ṛk 5.11.4
Saṃhitā
अ॒ग्निर्नो॑ य॒ज्ञमुप॑ वेतु साधु॒याग्निं नरो॒ वि भ॑रंते गृ॒हेगृ॑हे ।
अ॒ग्निर्दू॒तो अ॑भवद्धव्य॒वाह॑नो॒ऽग्निं वृ॑णा॒ना वृ॑णते क॒विक्र॑तुं ॥
अग्निर् नो यज्ञम् उप वेतु साधुयाग्निं नरो वि भरन्ते गृहे-गृहे |
अग्निर् दूतो अभवद् धव्यवाहनो ऽग्निं वृणाना वृणते कविक्रतुम् ||
agnírno yajñámúpa vetu sādhuyā́gním náro ví bharante gṛhégṛhe ǀ
agnírdūtó abhavaddhavyavā́hano’gním vṛṇānā́ vṛṇate kavíkratum ǁ
agnir no yajñam upa vetu sādhuyāgniṃ naro vi bharante gṛhe-gṛhe |
agnir dūto abhavad dhavyavāhano 'gniṃ vṛṇānā vṛṇate kavikratum ||
Padapāṭha
अ॒ग्निः । नः॒ । य॒ज्ञम् । उप॑ । वे॒तु॒ । सा॒धु॒ऽया । अ॒ग्निम् । नरः॑ । वि । भ॒र॒न्ते॒ । गृ॒हेऽगृ॑हे ।
अ॒ग्निः । दू॒तः । अ॒भ॒व॒त् । ह॒व्य॒ऽवाह॑नः । अ॒ग्निम् । वृ॒णा॒नाः । वृ॒ण॒ते॒ । क॒विऽक्र॑तुम् ॥
अग्निः । नः । यज्ञम् । उप । वेतु । साधुऽया । अग्निम् । नरः । वि । भरन्ते । गृहेऽगृहे ।
अग्निः । दूतः । अभवत् । हव्यऽवाहनः । अग्निम् । वृणानाः । वृणते । कविऽक्रतुम् ॥
agníḥ ǀ naḥ ǀ yajñám ǀ úpa ǀ vetu ǀ sādhu-yā́ ǀ agním ǀ náraḥ ǀ ví ǀ bharante ǀ gṛhé-gṛhe ǀ
agníḥ ǀ dūtáḥ ǀ abhavat ǀ havya-vā́hanaḥ ǀ agním ǀ vṛṇānā́ḥ ǀ vṛṇate ǀ kaví-kratum ǁ
agniḥ ǀ naḥ ǀ yajñam ǀ upa ǀ vetu ǀ sādhu-yā ǀ agnim ǀ naraḥ ǀ vi ǀ bharante ǀ gṛhe-gṛhe ǀ
agniḥ ǀ dūtaḥ ǀ abhavat ǀ havya-vāhanaḥ ǀ agnim ǀ vṛṇānāḥ ǀ vṛṇate ǀ kavi-kratum ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.011.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.1.03.04
- Maṇḍala · Anuvāka · Ṛk
- 05.01.103
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Sutambhara Ātreya
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.