Ṛk 5.11.6
Saṃhitā
त्वाम॑ग्ने॒ अंगि॑रसो॒ गुहा॑ हि॒तमन्व॑विंदंछिश्रिया॒णं वने॑वने ।
स जा॑यसे म॒थ्यमा॑नः॒ सहो॑ म॒हत्त्वामा॑हुः॒ सह॑सस्पु॒त्रमं॑गिरः ॥
त्वाम् अग्ने अङ्गिरसो गुहा हितम् अन्व् अविन्दञ् छिश्रियाणं वने-वने |
स जायसे मथ्यमानः सहो महत् त्वाम् आहुः सहसस् पुत्रम् अङ्गिरः ||
tvā́magne áṅgiraso gúhā hitámánvavindañchiśriyāṇám vánevane ǀ
sá jāyase mathyámānaḥ sáho maháttvā́māhuḥ sáhasasputrámaṅgiraḥ ǁ
tvām agne aṅgiraso guhā hitam anv avindañ chiśriyāṇaṃ vane-vane |
sa jāyase mathyamānaḥ saho mahat tvām āhuḥ sahasas putram aṅgiraḥ ||
Padapāṭha
त्वाम् । अ॒ग्ने॒ । अङ्गि॑रसः । गुहा॑ । हि॒तम् । अनु॑ । अ॒वि॒न्द॒न् । शि॒श्रि॒या॒णम् । वने॑ऽवने ।
सः । जा॒य॒से॒ । म॒थ्यमा॑नः । सहः॑ । म॒हत् । त्वाम् । आ॒हुः॒ । सह॑सः । पु॒त्रम् । अ॒ङ्गि॒रः॒ ॥
त्वाम् । अग्ने । अङ्गिरसः । गुहा । हितम् । अनु । अविन्दन् । शिश्रियाणम् । वनेऽवने ।
सः । जायसे । मथ्यमानः । सहः । महत् । त्वाम् । आहुः । सहसः । पुत्रम् । अङ्गिरः ॥
tvā́m ǀ agne ǀ áṅgirasaḥ ǀ gúhā ǀ hitám ǀ ánu ǀ avindan ǀ śiśriyāṇám ǀ váne-vane ǀ
sáḥ ǀ jāyase ǀ mathyámānaḥ ǀ sáhaḥ ǀ mahát ǀ tvā́m ǀ āhuḥ ǀ sáhasaḥ ǀ putrám ǀ aṅgiraḥ ǁ
tvām ǀ agne ǀ aṅgirasaḥ ǀ guhā ǀ hitam ǀ anu ǀ avindan ǀ śiśriyāṇam ǀ vane-vane ǀ
saḥ ǀ jāyase ǀ mathyamānaḥ ǀ sahaḥ ǀ mahat ǀ tvām ǀ āhuḥ ǀ sahasaḥ ǀ putram ǀ aṅgiraḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.011.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.1.03.06
- Maṇḍala · Anuvāka · Ṛk
- 05.01.105
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Sutambhara Ātreya
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.