Ṛk 5.76.2
Saṃhitā
न सं॑स्कृ॒तं प्र मि॑मीतो॒ गमि॒ष्ठांति॑ नू॒नम॒श्विनोप॑स्तुते॒ह ।
दिवा॑भिपि॒त्वेऽव॒साग॑मिष्ठा॒ प्रत्यव॑र्तिं दा॒शुषे॒ शंभ॑विष्ठा ॥
न संस्कृतम् प्र मिमीतो गमिष्ठान्ति नूनम् अश्विनोपस्तुतेह |
दिवाभिपित्वे ऽवसागमिष्ठा प्रत्य् अवर्तिं दाशुषे शम्भविष्ठा ||
ná saṃskṛtám prá mimīto gámiṣṭhā́nti nūnámaśvínópastutehá ǀ
dívābhipitvé’vasā́gamiṣṭhā prátyávartim dāśúṣe śámbhaviṣṭhā ǁ
na saṃskṛtam pra mimīto gamiṣṭhānti nūnam aśvinopastuteha |
divābhipitve 'vasāgamiṣṭhā praty avartiṃ dāśuṣe śambhaviṣṭhā ||
Padapāṭha
न । सं॒स्कृ॒तम् । प्र । मि॒मी॒तः॒ । गमि॑ष्ठा । अन्ति॑ । नू॒नम् । अ॒श्विना॑ । उप॑ऽस्तुता । इ॒ह ।
दिवा॑ । अ॒भि॒ऽपि॒त्वे । अव॑सा । आऽग॑मिष्ठा । प्रति॑ । अव॑र्तिम् । दा॒शुषे॑ । शम्ऽभ॑विष्ठा ॥
न । संस्कृतम् । प्र । मिमीतः । गमिष्ठा । अन्ति । नूनम् । अश्विना । उपऽस्तुता । इह ।
दिवा । अभिऽपित्वे । अवसा । आऽगमिष्ठा । प्रति । अवर्तिम् । दाशुषे । शम्ऽभविष्ठा ॥
ná ǀ saṃskṛtám ǀ prá ǀ mimītaḥ ǀ gámiṣṭhā ǀ ánti ǀ nūnám ǀ aśvínā ǀ úpa-stutā ǀ ihá ǀ
dívā ǀ abhi-pitvé ǀ ávasā ǀ ā́-gamiṣṭhā ǀ práti ǀ ávartim ǀ dāśúṣe ǀ śám-bhaviṣṭhā ǁ
na ǀ saṃskṛtam ǀ pra ǀ mimītaḥ ǀ gamiṣṭhā ǀ anti ǀ nūnam ǀ aśvinā ǀ upa-stutā ǀ iha ǀ
divā ǀ abhi-pitve ǀ avasā ǀ ā-gamiṣṭhā ǀ prati ǀ avartim ǀ dāśuṣe ǀ śam-bhaviṣṭhā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.076.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.4.17.02
- Maṇḍala · Anuvāka · Ṛk
- 05.06.031
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Atri Bhauma
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.