Ṛk 5.76.3
Saṃhitā
उ॒ता या॑तं संग॒वे प्रा॒तरह्नो॑ म॒ध्यंदि॑न॒ उदि॑ता॒ सूर्य॑स्य ।
दिवा॒ नक्त॒मव॑सा॒ शंत॑मेन॒ नेदानीं॑ पी॒तिर॒श्विना त॑तान ॥
उता यातं संगवे प्रातर् अह्नो मध्यन्दिन उदिता सूर्यस्य |
दिवा नक्तम् अवसा शन्तमेन नेदानीम् पीतिर् अश्विना ततान ||
utā́ yātam saṃgavé prātáráhno madhyáṃdina úditā sū́ryasya ǀ
dívā náktamávasā śáṃtamena nédā́nīm pītíraśvínā́ tatāna ǁ
utā yātaṃ saṃgave prātar ahno madhyandina uditā sūryasya |
divā naktam avasā śantamena nedānīm pītir aśvinā tatāna ||
Padapāṭha
उ॒त । आ । या॒त॒म् । स॒म्ऽग॒वे । प्रा॒तः । अह्नः॑ । म॒ध्यन्दि॑ने । उत्ऽइ॑ता । सूर्य॑स्य ।
दिवा॑ । नक्त॑म् । अव॑सा । शम्ऽत॑मेन । न । इ॒दानी॑म् । पी॒तिः । अ॒श्विना॑ । आ । त॒ता॒न॒ ॥
उत । आ । यातम् । सम्ऽगवे । प्रातः । अह्नः । मध्यन्दिने । उत्ऽइता । सूर्यस्य ।
दिवा । नक्तम् । अवसा । शम्ऽतमेन । न । इदानीम् । पीतिः । अश्विना । आ । ततान ॥
utá ǀ ā́ ǀ yātam ǀ sam-gavé ǀ prātáḥ ǀ áhnaḥ ǀ madhyándine ǀ út-itā ǀ sū́ryasya ǀ
dívā ǀ náktam ǀ ávasā ǀ śám-tamena ǀ ná ǀ idā́nīm ǀ pītíḥ ǀ aśvínā ǀ ā́ ǀ tatāna ǁ
uta ǀ ā ǀ yātam ǀ sam-gave ǀ prātaḥ ǀ ahnaḥ ǀ madhyandine ǀ ut-itā ǀ sūryasya ǀ
divā ǀ naktam ǀ avasā ǀ śam-tamena ǀ na ǀ idānīm ǀ pītiḥ ǀ aśvinā ǀ ā ǀ tatāna ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.076.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.4.17.03
- Maṇḍala · Anuvāka · Ṛk
- 05.06.032
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Atri Bhauma
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.