Ṛk 5.43.10
Saṃhitā
आ नाम॑भिर्म॒रुतो॑ वक्षि॒ विश्वा॒ना रू॒पेभि॑र्जातवेदो हुवा॒नः ।
य॒ज्ञं गिरो॑ जरि॒तुः सु॑ष्टु॒तिं च॒ विश्वे॑ गंत मरुतो॒ विश्व॑ ऊ॒ती ॥
आ नामभिर् मरुतो वक्षि विश्वान् आ रूपेभिर् जातवेदो हुवानः |
यज्ञं गिरो जरितुः सुष्टुतिं च विश्वे गन्त मरुतो विश्व ऊती ||
ā́ nā́mabhirmarúto vakṣi víśvānā́ rūpébhirjātavedo huvānáḥ ǀ
yajñám gíro jaritúḥ suṣṭutím ca víśve ganta maruto víśva ūtī́ ǁ
ā nāmabhir maruto vakṣi viśvān ā rūpebhir jātavedo huvānaḥ |
yajñaṃ giro jarituḥ suṣṭutiṃ ca viśve ganta maruto viśva ūtī ||
Padapāṭha
आ । नाम॑ऽभिः । म॒रुतः॑ । व॒क्षि॒ । विश्वा॑न् । आ । रू॒पेभिः॑ । जा॒त॒ऽवे॒दः॒ । हु॒वा॒नः ।
य॒ज्ञम् । गिरः॑ । ज॒रि॒तुः । सु॒ऽस्तु॒तिम् । च॒ । विश्वे॑ । ग॒न्त॒ । म॒रु॒तः॒ । विश्वे॑ । ऊ॒ती ॥
आ । नामऽभिः । मरुतः । वक्षि । विश्वान् । आ । रूपेभिः । जातऽवेदः । हुवानः ।
यज्ञम् । गिरः । जरितुः । सुऽस्तुतिम् । च । विश्वे । गन्त । मरुतः । विश्वे । ऊती ॥
ā́ ǀ nā́ma-bhiḥ ǀ marútaḥ ǀ vakṣi ǀ víśvān ǀ ā́ ǀ rūpébhiḥ ǀ jāta-vedaḥ ǀ huvānáḥ ǀ
yajñám ǀ gíraḥ ǀ jaritúḥ ǀ su-stutím ǀ ca ǀ víśve ǀ ganta ǀ marutaḥ ǀ víśve ǀ ūtī́ ǁ
ā ǀ nāma-bhiḥ ǀ marutaḥ ǀ vakṣi ǀ viśvān ǀ ā ǀ rūpebhiḥ ǀ jāta-vedaḥ ǀ huvānaḥ ǀ
yajñam ǀ giraḥ ǀ jarituḥ ǀ su-stutim ǀ ca ǀ viśve ǀ ganta ǀ marutaḥ ǀ viśve ǀ ūtī ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.043.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.2.21.05
- Maṇḍala · Anuvāka · Ṛk
- 05.03.105
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Atri Bhauma
- Chandas छन्दस्
- Triṣṭubh, Ekapadā Virāj
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.