Ṛk 5.43.11
Saṃhitā
आ नो॑ दि॒वो बृ॑ह॒तः पर्व॑ता॒दा सर॑स्वती यज॒ता गं॑तु य॒ज्ञं ।
हवं॑ दे॒वी जु॑जुषा॒णा घृ॒ताची॑ श॒ग्मां नो॒ वाच॑मुश॒ती शृ॑णोतु ॥
आ नो दिवो बृहतः पर्वताद् आ सरस्वती यजता गन्तु यज्ञम् |
हवं देवी जुजुषाणा घृताची शग्मां नो वाचम् उशती शृणोतु ||
ā́ no divó bṛhatáḥ párvatādā́ sárasvatī yajatā́ gantu yajñám ǀ
hávam devī́ jujuṣāṇā́ ghṛtā́cī śagmā́m no vā́camuśatī́ śṛṇotu ǁ
ā no divo bṛhataḥ parvatād ā sarasvatī yajatā gantu yajñam |
havaṃ devī jujuṣāṇā ghṛtācī śagmāṃ no vācam uśatī śṛṇotu ||
Padapāṭha
आ । नः॒ । दि॒वः । बृ॒ह॒तः । पर्व॑तात् । आ । सर॑स्वती । य॒ज॒ता । ग॒न्तु॒ । य॒ज्ञम् ।
हव॑म् । दे॒वी । जु॒जु॒षा॒णा । घृ॒ताची॑ । श॒ग्माम् । नः॒ । वाच॑म् । उ॒श॒ती । शृ॒णो॒तु॒ ॥
आ । नः । दिवः । बृहतः । पर्वतात् । आ । सरस्वती । यजता । गन्तु । यज्ञम् ।
हवम् । देवी । जुजुषाणा । घृताची । शग्माम् । नः । वाचम् । उशती । शृणोतु ॥
ā́ ǀ naḥ ǀ diváḥ ǀ bṛhatáḥ ǀ párvatāt ǀ ā́ ǀ sárasvatī ǀ yajatā́ ǀ gantu ǀ yajñám ǀ
hávam ǀ devī́ ǀ jujuṣāṇā́ ǀ ghṛtā́cī ǀ śagmā́m ǀ naḥ ǀ vā́cam ǀ uśatī́ ǀ śṛṇotu ǁ
ā ǀ naḥ ǀ divaḥ ǀ bṛhataḥ ǀ parvatāt ǀ ā ǀ sarasvatī ǀ yajatā ǀ gantu ǀ yajñam ǀ
havam ǀ devī ǀ jujuṣāṇā ǀ ghṛtācī ǀ śagmām ǀ naḥ ǀ vācam ǀ uśatī ǀ śṛṇotu ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.043.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.2.22.01
- Maṇḍala · Anuvāka · Ṛk
- 05.03.106
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Atri Bhauma
- Chandas छन्दस्
- Triṣṭubh, Ekapadā Virāj
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.