Ṛk 5.10.2
Saṃhitā
त्वं नो॑ अग्ने अद्भुत॒ क्रत्वा॒ दक्ष॑स्य मं॒हना॑ ।
त्वे अ॑सु॒र्य१॒॑मारु॑हत्क्रा॒णा मि॒त्रो न य॒ज्ञियः॑ ॥
त्वं नो अग्ने अद्भुत क्रत्वा दक्षस्य मंहना |
त्वे असुर्यम् आरुहत् क्राणा मित्रो न यज्ञियः ||
tvám no agne adbhuta krátvā dákṣasya maṃhánā ǀ
tvé asuryámā́ruhatkrāṇā́ mitró ná yajñíyaḥ ǁ
tvaṃ no agne adbhuta kratvā dakṣasya maṃhanā |
tve asuryam āruhat krāṇā mitro na yajñiyaḥ ||
Padapāṭha
त्वम् । नः॒ । अ॒ग्ने॒ । अ॒द्भु॒त॒ । क्रत्वा॑ । दक्ष॑स्य । मं॒हना॑ ।
त्वे इति॑ । अ॒सु॒र्य॑म् । आ । अ॒रु॒ह॒त् । क्रा॒णा । मि॒त्रः । न । य॒ज्ञियः॑ ॥
त्वम् । नः । अग्ने । अद्भुत । क्रत्वा । दक्षस्य । मंहना ।
त्वे इति । असुर्यम् । आ । अरुहत् । क्राणा । मित्रः । न । यज्ञियः ॥
tvám ǀ naḥ ǀ agne ǀ adbhuta ǀ krátvā ǀ dákṣasya ǀ maṃhánā ǀ
tvé íti ǀ asuryám ǀ ā́ ǀ aruhat ǀ krāṇā́ ǀ mitráḥ ǀ ná ǀ yajñíyaḥ ǁ
tvam ǀ naḥ ǀ agne ǀ adbhuta ǀ kratvā ǀ dakṣasya ǀ maṃhanā ǀ
tve iti ǀ asuryam ǀ ā ǀ aruhat ǀ krāṇā ǀ mitraḥ ǀ na ǀ yajñiyaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.010.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.1.02.02
- Maṇḍala · Anuvāka · Ṛk
- 05.01.094
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Gaya Ātreya
- Chandas छन्दस्
- Anuṣṭubh, Paṅkti
- Svara स्वरः
- ऋषभः
Text and interpretations from the Ṛgveda database of theveda.org.in.