Sūkta 43
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Ajamīḷha Sauhotra; Purumīḷha Sauhotra
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (2, 3, 5-7); triṣṭup (1); svarāṭpaṅkti (4)
2nd set of styles triṣṭubh
-
Ṛk 1
क उ॑ श्रवत्कत॒मो य॒ज्ञिया॑नां वं॒दारु॑ दे॒वः क॑त॒मो जु॑षाते ।
कस्ये॒मां दे॒वीम॒मृते॑षु॒ प्रेष्ठां॑ हृ॒दि श्रे॑षाम सुष्टु॒तिं सु॑ह॒व्यां ॥क उ श्रवत् कतमो यज्ञियानां वन्दारु देवः कतमो जुषाते |
कस्येमां देवीम् अमृतेषु प्रेष्ठां हृदि श्रेषाम सुष्टुतिं सुहव्याम् ||ká u śravatkatamó yajñíyānām vandā́ru deváḥ katamó juṣāte ǀ
kásyemā́m devī́mamṛ́teṣu préṣṭhām hṛdí śreṣāma suṣṭutím suhavyā́m ǁka u śravat katamo yajñiyānāṃ vandāru devaḥ katamo juṣāte |
kasyemāṃ devīm amṛteṣu preṣṭhāṃ hṛdi śreṣāma suṣṭutiṃ suhavyām ||कः । ऊं॒ इति॑ । श्र॒व॒त् । क॒त॒मः । य॒ज्ञिया॑नाम् । व॒न्दारु॑ । दे॒वः । क॒त॒मः । जु॒षा॒ते॒ ।
कस्य॑ । इ॒माम् । दे॒वीम् । अ॒मृते॑षु । प्रेष्ठा॑म् । हृ॒दि । श्रे॒षा॒म॒ । सु॒ऽस्तु॒तिम् । सु॒ऽह॒व्याम् ॥कः । ऊं इति । श्रवत् । कतमः । यज्ञियानाम् । वन्दारु । देवः । कतमः । जुषाते ।
कस्य । इमाम् । देवीम् । अमृतेषु । प्रेष्ठाम् । हृदि । श्रेषाम । सुऽस्तुतिम् । सुऽहव्याम् ॥káḥ ǀ ūṃ íti ǀ śravat ǀ katamáḥ ǀ yajñíyānām ǀ vandā́ru ǀ deváḥ ǀ katamáḥ ǀ juṣāte ǀ
kásya ǀ imā́m ǀ devī́m ǀ amṛ́teṣu ǀ préṣṭhām ǀ hṛdí ǀ śreṣāma ǀ su-stutím ǀ su-havyā́m ǁkaḥ ǀ ūṃ iti ǀ śravat ǀ katamaḥ ǀ yajñiyānām ǀ vandāru ǀ devaḥ ǀ katamaḥ ǀ juṣāte ǀ
kasya ǀ imām ǀ devīm ǀ amṛteṣu ǀ preṣṭhām ǀ hṛdi ǀ śreṣāma ǀ su-stutim ǀ su-havyām ǁ4.43.1 Aṣṭaka 3.7.19.1Anuvāka 4.4.91
-
Ṛk 2
को मृ॑ळाति कत॒म आग॑मिष्ठो दे॒वाना॑मु कत॒मः शंभ॑विष्ठः ।
रथं॒ कमा॑हुर्द्र॒वद॑श्वमा॒शुं यं सूर्य॑स्य दुहि॒तावृ॑णीत ॥को मृऌआति कतम आगमिष्ठो देवानाम् उ कतमः शम्भविष्ठः |
रथं कम् आहुर् द्रवदश्वम् आशुं यं सूर्यस्य दुहितावृणीत ||kó mṛḷāti katamá ā́gamiṣṭho devā́nāmu katamáḥ śámbhaviṣṭhaḥ ǀ
rátham kámāhurdravádaśvamāśúm yám sū́ryasya duhitā́vṛṇīta ǁko mṛḷāti katama āgamiṣṭho devānām u katamaḥ śambhaviṣṭhaḥ |
rathaṃ kam āhur dravadaśvam āśuṃ yaṃ sūryasya duhitāvṛṇīta ||कः । मृ॒ळा॒ति॒ । क॒त॒मः । आऽग॑मिष्ठः । दे॒वाना॑म् । ऊं॒ इति॑ । क॒त॒मः । शम्ऽभ॑विष्ठः ।
रथ॑म् । कम् । आ॒हुः॒ । द्र॒वत्ऽअ॑श्वम् । आ॒शुम् । यम् । सूर्य॑स्य । दु॒हि॒ता । अवृ॑णीत ॥कः । मृळाति । कतमः । आऽगमिष्ठः । देवानाम् । ऊं इति । कतमः । शम्ऽभविष्ठः ।
रथम् । कम् । आहुः । द्रवत्ऽअश्वम् । आशुम् । यम् । सूर्यस्य । दुहिता । अवृणीत ॥káḥ ǀ mṛḷāti ǀ katamáḥ ǀ ā́-gamiṣṭhaḥ ǀ devā́nām ǀ ūṃ íti ǀ katamáḥ ǀ śám-bhaviṣṭhaḥ ǀ
rátham ǀ kám ǀ āhuḥ ǀ dravát-aśvam ǀ āśúm ǀ yám ǀ sū́ryasya ǀ duhitā́ ǀ ávṛṇīta ǁkaḥ ǀ mṛḷāti ǀ katamaḥ ǀ ā-gamiṣṭhaḥ ǀ devānām ǀ ūṃ iti ǀ katamaḥ ǀ śam-bhaviṣṭhaḥ ǀ
ratham ǀ kam ǀ āhuḥ ǀ dravat-aśvam ǀ āśum ǀ yam ǀ sūryasya ǀ duhitā ǀ avṛṇīta ǁ4.43.2 Aṣṭaka 3.7.19.2Anuvāka 4.4.92
-
Ṛk 3
म॒क्षू हि ष्मा॒ गच्छ॑थ॒ ईव॑तो॒ द्यूनिंद्रो॒ न श॒क्तिं परि॑तक्म्यायां ।
दि॒व आजा॑ता दि॒व्या सु॑प॒र्णा कया॒ शची॑नां भवथः॒ शचि॑ष्ठा ॥मक्षू हि ष्मा गच्छथ ईवतो द्यून् इन्द्रो न शक्तिम् परितक्म्यायाम् |
दिव आजाता दिव्या सुपर्णा कया शचीनाम् भवथः शचिष्ठा ||makṣū́ hí ṣmā gácchatha ī́vato dyū́níndro ná śaktím páritakmyāyām ǀ
divá ā́jātā divyā́ suparṇā́ káyā śácīnām bhavathaḥ śáciṣṭhā ǁmakṣū hi ṣmā gacchatha īvato dyūn indro na śaktim paritakmyāyām |
diva ājātā divyā suparṇā kayā śacīnām bhavathaḥ śaciṣṭhā ||म॒क्षु । हि । स्म॒ । गच्छ॑थः । ईव॑तः । द्यून् । इन्द्रः॑ । न । श॒क्तिम् । परि॑ऽतक्म्यायाम् ।
दि॒वः । आऽजा॑ता । दि॒व्या । सु॒ऽप॒र्णा । कया॑ । शची॑नाम् । भ॒व॒थः॒ । शचि॑ष्ठा ॥मक्षु । हि । स्म । गच्छथः । ईवतः । द्यून् । इन्द्रः । न । शक्तिम् । परिऽतक्म्यायाम् ।
दिवः । आऽजाता । दिव्या । सुऽपर्णा । कया । शचीनाम् । भवथः । शचिष्ठा ॥makṣú ǀ hí ǀ sma ǀ gácchathaḥ ǀ ī́vataḥ ǀ dyū́n ǀ índraḥ ǀ ná ǀ śaktím ǀ pári-takmyāyām ǀ
diváḥ ǀ ā́-jātā ǀ divyā́ ǀ su-parṇā́ ǀ káyā ǀ śácīnām ǀ bhavathaḥ ǀ śáciṣṭhā ǁmakṣu ǀ hi ǀ sma ǀ gacchathaḥ ǀ īvataḥ ǀ dyūn ǀ indraḥ ǀ na ǀ śaktim ǀ pari-takmyāyām ǀ
divaḥ ǀ ā-jātā ǀ divyā ǀ su-parṇā ǀ kayā ǀ śacīnām ǀ bhavathaḥ ǀ śaciṣṭhā ǁ4.43.3 Aṣṭaka 3.7.19.3Anuvāka 4.4.93
-
Ṛk 4
का वां॑ भू॒दुप॑मातिः॒ कया॑ न॒ आश्वि॑ना गमथो हू॒यमा॑ना ।
को वां॑ म॒हश्चि॒त्त्यज॑सो अ॒भीक॑ उरु॒ष्यतं॑ माध्वी दस्रा न ऊ॒ती ॥का वाम् भूद् उपमातिः कया न आश्विना गमथो हूयमाना |
को वाम् महश् चित् त्यजसो अभीक उरुष्यतम् माध्वी दस्रा न ऊती ||kā́ vām bhūdúpamātiḥ káyā na ā́śvinā gamatho hūyámānā ǀ
kó vām maháścittyájaso abhī́ka uruṣyátam mādhvī dasrā na ūtī́ ǁkā vām bhūd upamātiḥ kayā na āśvinā gamatho hūyamānā |
ko vām mahaś cit tyajaso abhīka uruṣyatam mādhvī dasrā na ūtī ||का । वा॒म् । भू॒त् । उप॑ऽमातिः । कया॑ । नः॒ । आ । अ॒श्वि॒ना॒ । ग॒म॒थः॒ । हू॒यमा॑ना ।
कः । वा॒म् । म॒हः । चि॒त् । त्यज॑सः । अ॒भीके॑ । उ॒रु॒ष्यत॑म् । मा॒ध्वी॒ इति॑ । द॒स्रा॒ । नः॒ । ऊ॒ती ॥का । वाम् । भूत् । उपऽमातिः । कया । नः । आ । अश्विना । गमथः । हूयमाना ।
कः । वाम् । महः । चित् । त्यजसः । अभीके । उरुष्यतम् । माध्वी इति । दस्रा । नः । ऊती ॥kā́ ǀ vām ǀ bhūt ǀ úpa-mātiḥ ǀ káyā ǀ naḥ ǀ ā́ ǀ aśvinā ǀ gamathaḥ ǀ hūyámānā ǀ
káḥ ǀ vām ǀ maháḥ ǀ cit ǀ tyájasaḥ ǀ abhī́ke ǀ uruṣyátam ǀ mādhvī íti ǀ dasrā ǀ naḥ ǀ ūtī́ ǁkā ǀ vām ǀ bhūt ǀ upa-mātiḥ ǀ kayā ǀ naḥ ǀ ā ǀ aśvinā ǀ gamathaḥ ǀ hūyamānā ǀ
kaḥ ǀ vām ǀ mahaḥ ǀ cit ǀ tyajasaḥ ǀ abhīke ǀ uruṣyatam ǀ mādhvī iti ǀ dasrā ǀ naḥ ǀ ūtī ǁ4.43.4 Aṣṭaka 3.7.19.4Anuvāka 4.4.94
-
Ṛk 5
उ॒रु वां॒ रथः॒ परि॑ नक्षति॒ द्यामा यत्स॑मु॒द्राद॒भि वर्त॑ते वां ।
मध्वा॑ माध्वी॒ मधु॑ वां प्रुषाय॒न्यत्सीं॑ वां॒ पृक्षो॑ भु॒रजं॑त प॒क्वाः ॥उरु वां रथः परि नक्षति द्याम् आ यत् समुद्राद् अभि वर्तते वाम् |
मध्वा माध्वी मधु वाम् प्रुषायन् यत् सीं वाम् पृक्षो भुरजन्त पक्वाः ||urú vām ráthaḥ pári nakṣati dyā́mā́ yátsamudrā́dabhí vártate vām ǀ
mádhvā mādhvī mádhu vām pruṣāyanyátsīm vām pṛ́kṣo bhurájanta pakvā́ḥ ǁuru vāṃ rathaḥ pari nakṣati dyām ā yat samudrād abhi vartate vām |
madhvā mādhvī madhu vām pruṣāyan yat sīṃ vām pṛkṣo bhurajanta pakvāḥ ||उ॒रु । वा॒म् । रथः॑ । परि॑ । न॒क्ष॒ति॒ । द्याम् । आ । यत् । स॒मु॒द्रात् । अ॒भि । वर्त॑ते । वा॒म् ।
मध्वा॑ । मा॒ध्वी॒ इति॑ । मधु॑ । वा॒म् । प्रु॒षा॒य॒न् । यत् । सी॒म् । वा॒म् । पृक्षः॑ । भु॒रज॑न्त । प॒क्वाः ॥उरु । वाम् । रथः । परि । नक्षति । द्याम् । आ । यत् । समुद्रात् । अभि । वर्तते । वाम् ।
मध्वा । माध्वी इति । मधु । वाम् । प्रुषायन् । यत् । सीम् । वाम् । पृक्षः । भुरजन्त । पक्वाः ॥urú ǀ vām ǀ ráthaḥ ǀ pári ǀ nakṣati ǀ dyā́m ǀ ā́ ǀ yát ǀ samudrā́t ǀ abhí ǀ vártate ǀ vām ǀ
mádhvā ǀ mādhvī íti ǀ mádhu ǀ vām ǀ pruṣāyan ǀ yát ǀ sīm ǀ vām ǀ pṛ́kṣaḥ ǀ bhurájanta ǀ pakvā́ḥ ǁuru ǀ vām ǀ rathaḥ ǀ pari ǀ nakṣati ǀ dyām ǀ ā ǀ yat ǀ samudrāt ǀ abhi ǀ vartate ǀ vām ǀ
madhvā ǀ mādhvī iti ǀ madhu ǀ vām ǀ pruṣāyan ǀ yat ǀ sīm ǀ vām ǀ pṛkṣaḥ ǀ bhurajanta ǀ pakvāḥ ǁ4.43.5 Aṣṭaka 3.7.19.5Anuvāka 4.4.95
-
Ṛk 6
सिंधु॑र्ह वां र॒सया॑ सिंच॒दश्वा॑न्घृ॒णा वयो॑ऽरु॒षासः॒ परि॑ ग्मन् ।
तदू॒ षु वा॑मजि॒रं चे॑ति॒ यानं॒ येन॒ पती॒ भव॑थः सू॒र्यायाः॑ ॥सिन्धुर् ह वां रसया सिञ्चद् अश्वान् घृणा वयो ऽरुषासः परि ग्मन् |
तद् ऊ षु वाम् अजिरं चेति यानं येन पती भवथः सूर्यायाः ||síndhurha vām rasáyā siñcadáśvānghṛṇā́ váyo’ruṣā́saḥ pári gman ǀ
tádū ṣú vāmajirám ceti yā́nam yéna pátī bhávathaḥ sūryā́yāḥ ǁsindhur ha vāṃ rasayā siñcad aśvān ghṛṇā vayo 'ruṣāsaḥ pari gman |
tad ū ṣu vām ajiraṃ ceti yānaṃ yena patī bhavathaḥ sūryāyāḥ ||सिन्धुः॑ । ह॒ । वा॒म् । र॒सया॑ । सि॒ञ्च॒त् । अश्वा॑न् । घृ॒णा । वयः॑ । अ॒रु॒षासः॑ । परि॑ । ग्म॒न् ।
तत् । ऊं॒ इति॑ । सु । वा॒म् । अ॒जि॒रम् । चे॒ति॒ । यान॑म् । येन॑ । पती॒ इति॑ । भव॑थः । सू॒र्यायाः॑ ॥सिन्धुः । ह । वाम् । रसया । सिञ्चत् । अश्वान् । घृणा । वयः । अरुषासः । परि । ग्मन् ।
तत् । ऊं इति । सु । वाम् । अजिरम् । चेति । यानम् । येन । पती इति । भवथः । सूर्यायाः ॥síndhuḥ ǀ ha ǀ vām ǀ rasáyā ǀ siñcat ǀ áśvān ǀ ghṛṇā́ ǀ váyaḥ ǀ aruṣā́saḥ ǀ pári ǀ gman ǀ
tát ǀ ūṃ íti ǀ sú ǀ vām ǀ ajirám ǀ ceti ǀ yā́nam ǀ yéna ǀ pátī íti ǀ bhávathaḥ ǀ sūryā́yāḥ ǁsindhuḥ ǀ ha ǀ vām ǀ rasayā ǀ siñcat ǀ aśvān ǀ ghṛṇā ǀ vayaḥ ǀ aruṣāsaḥ ǀ pari ǀ gman ǀ
tat ǀ ūṃ iti ǀ su ǀ vām ǀ ajiram ǀ ceti ǀ yānam ǀ yena ǀ patī iti ǀ bhavathaḥ ǀ sūryāyāḥ ǁ4.43.6 Aṣṭaka 3.7.19.6Anuvāka 4.4.96
-
Ṛk 7
इ॒हेह॒ यद्वां॑ सम॒ना प॑पृ॒क्षे सेयम॒स्मे सु॑म॒तिर्वा॑जरत्ना ।
उ॒रु॒ष्यतं॑ जरि॒तारं॑ यु॒वं ह॑ श्रि॒तः कामो॑ नासत्या युव॒द्रिक् ॥इहेह यद् वां समना पपृक्षे सेयम् अस्मे सुमतिर् वाजरत्ना |
उरुष्यतं जरितारं युवं ह श्रितः कामो नासत्या युवद्रिक् ||ihéha yádvām samanā́ papṛkṣé séyámasmé sumatírvājaratnā ǀ
uruṣyátam jaritā́ram yuvám ha śritáḥ kā́mo nāsatyā yuvadrík ǁiheha yad vāṃ samanā papṛkṣe seyam asme sumatir vājaratnā |
uruṣyataṃ jaritāraṃ yuvaṃ ha śritaḥ kāmo nāsatyā yuvadrik ||इ॒हऽइ॑ह । यत् । वा॒म् । स॒म॒ना । प॒पृ॒क्षे । सा । इ॒यम् । अ॒स्मे इति॑ । सु॒ऽम॒तिः । वा॒ज॒ऽर॒त्ना॒ ।
उ॒रु॒ष्यत॑म् । ज॒रि॒तार॑म् । यु॒वम् । ह॒ । श्रि॒तः । कामः॑ । ना॒स॒त्या॒ । यु॒व॒द्रिक् ॥इहऽइह । यत् । वाम् । समना । पपृक्षे । सा । इयम् । अस्मे इति । सुऽमतिः । वाजऽरत्ना ।
उरुष्यतम् । जरितारम् । युवम् । ह । श्रितः । कामः । नासत्या । युवद्रिक् ॥ihá-iha ǀ yát ǀ vām ǀ samanā́ ǀ papṛkṣé ǀ sā́ ǀ iyám ǀ asmé íti ǀ su-matíḥ ǀ vāja-ratnā ǀ
uruṣyátam ǀ jaritā́ram ǀ yuvám ǀ ha ǀ śritáḥ ǀ kā́maḥ ǀ nāsatyā ǀ yuvadrík ǁiha-iha ǀ yat ǀ vām ǀ samanā ǀ papṛkṣe ǀ sā ǀ iyam ǀ asme iti ǀ su-matiḥ ǀ vāja-ratnā ǀ
uruṣyatam ǀ jaritāram ǀ yuvam ǀ ha ǀ śritaḥ ǀ kāmaḥ ǀ nāsatyā ǀ yuvadrik ǁ4.43.7 Aṣṭaka 3.7.19.7Anuvāka 4.4.97
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.