Ṛk 4.43.4
Saṃhitā
का वां॑ भू॒दुप॑मातिः॒ कया॑ न॒ आश्वि॑ना गमथो हू॒यमा॑ना ।
को वां॑ म॒हश्चि॒त्त्यज॑सो अ॒भीक॑ उरु॒ष्यतं॑ माध्वी दस्रा न ऊ॒ती ॥
का वाम् भूद् उपमातिः कया न आश्विना गमथो हूयमाना |
को वाम् महश् चित् त्यजसो अभीक उरुष्यतम् माध्वी दस्रा न ऊती ||
kā́ vām bhūdúpamātiḥ káyā na ā́śvinā gamatho hūyámānā ǀ
kó vām maháścittyájaso abhī́ka uruṣyátam mādhvī dasrā na ūtī́ ǁ
kā vām bhūd upamātiḥ kayā na āśvinā gamatho hūyamānā |
ko vām mahaś cit tyajaso abhīka uruṣyatam mādhvī dasrā na ūtī ||
Padapāṭha
का । वा॒म् । भू॒त् । उप॑ऽमातिः । कया॑ । नः॒ । आ । अ॒श्वि॒ना॒ । ग॒म॒थः॒ । हू॒यमा॑ना ।
कः । वा॒म् । म॒हः । चि॒त् । त्यज॑सः । अ॒भीके॑ । उ॒रु॒ष्यत॑म् । मा॒ध्वी॒ इति॑ । द॒स्रा॒ । नः॒ । ऊ॒ती ॥
का । वाम् । भूत् । उपऽमातिः । कया । नः । आ । अश्विना । गमथः । हूयमाना ।
कः । वाम् । महः । चित् । त्यजसः । अभीके । उरुष्यतम् । माध्वी इति । दस्रा । नः । ऊती ॥
kā́ ǀ vām ǀ bhūt ǀ úpa-mātiḥ ǀ káyā ǀ naḥ ǀ ā́ ǀ aśvinā ǀ gamathaḥ ǀ hūyámānā ǀ
káḥ ǀ vām ǀ maháḥ ǀ cit ǀ tyájasaḥ ǀ abhī́ke ǀ uruṣyátam ǀ mādhvī íti ǀ dasrā ǀ naḥ ǀ ūtī́ ǁ
kā ǀ vām ǀ bhūt ǀ upa-mātiḥ ǀ kayā ǀ naḥ ǀ ā ǀ aśvinā ǀ gamathaḥ ǀ hūyamānā ǀ
kaḥ ǀ vām ǀ mahaḥ ǀ cit ǀ tyajasaḥ ǀ abhīke ǀ uruṣyatam ǀ mādhvī iti ǀ dasrā ǀ naḥ ǀ ūtī ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.043.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.7.19.04
- Maṇḍala · Anuvāka · Ṛk
- 04.04.094
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Ajamīḷha Sauhotra; Purumīḷha Sauhotra
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.