Ṛk 4.43.5
Saṃhitā
उ॒रु वां॒ रथः॒ परि॑ नक्षति॒ द्यामा यत्स॑मु॒द्राद॒भि वर्त॑ते वां ।
मध्वा॑ माध्वी॒ मधु॑ वां प्रुषाय॒न्यत्सीं॑ वां॒ पृक्षो॑ भु॒रजं॑त प॒क्वाः ॥
उरु वां रथः परि नक्षति द्याम् आ यत् समुद्राद् अभि वर्तते वाम् |
मध्वा माध्वी मधु वाम् प्रुषायन् यत् सीं वाम् पृक्षो भुरजन्त पक्वाः ||
urú vām ráthaḥ pári nakṣati dyā́mā́ yátsamudrā́dabhí vártate vām ǀ
mádhvā mādhvī mádhu vām pruṣāyanyátsīm vām pṛ́kṣo bhurájanta pakvā́ḥ ǁ
uru vāṃ rathaḥ pari nakṣati dyām ā yat samudrād abhi vartate vām |
madhvā mādhvī madhu vām pruṣāyan yat sīṃ vām pṛkṣo bhurajanta pakvāḥ ||
Padapāṭha
उ॒रु । वा॒म् । रथः॑ । परि॑ । न॒क्ष॒ति॒ । द्याम् । आ । यत् । स॒मु॒द्रात् । अ॒भि । वर्त॑ते । वा॒म् ।
मध्वा॑ । मा॒ध्वी॒ इति॑ । मधु॑ । वा॒म् । प्रु॒षा॒य॒न् । यत् । सी॒म् । वा॒म् । पृक्षः॑ । भु॒रज॑न्त । प॒क्वाः ॥
उरु । वाम् । रथः । परि । नक्षति । द्याम् । आ । यत् । समुद्रात् । अभि । वर्तते । वाम् ।
मध्वा । माध्वी इति । मधु । वाम् । प्रुषायन् । यत् । सीम् । वाम् । पृक्षः । भुरजन्त । पक्वाः ॥
urú ǀ vām ǀ ráthaḥ ǀ pári ǀ nakṣati ǀ dyā́m ǀ ā́ ǀ yát ǀ samudrā́t ǀ abhí ǀ vártate ǀ vām ǀ
mádhvā ǀ mādhvī íti ǀ mádhu ǀ vām ǀ pruṣāyan ǀ yát ǀ sīm ǀ vām ǀ pṛ́kṣaḥ ǀ bhurájanta ǀ pakvā́ḥ ǁ
uru ǀ vām ǀ rathaḥ ǀ pari ǀ nakṣati ǀ dyām ǀ ā ǀ yat ǀ samudrāt ǀ abhi ǀ vartate ǀ vām ǀ
madhvā ǀ mādhvī iti ǀ madhu ǀ vām ǀ pruṣāyan ǀ yat ǀ sīm ǀ vām ǀ pṛkṣaḥ ǀ bhurajanta ǀ pakvāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.043.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.7.19.05
- Maṇḍala · Anuvāka · Ṛk
- 04.04.095
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Ajamīḷha Sauhotra; Purumīḷha Sauhotra
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.