Ṛk 4.43.1
Saṃhitā
क उ॑ श्रवत्कत॒मो य॒ज्ञिया॑नां वं॒दारु॑ दे॒वः क॑त॒मो जु॑षाते ।
कस्ये॒मां दे॒वीम॒मृते॑षु॒ प्रेष्ठां॑ हृ॒दि श्रे॑षाम सुष्टु॒तिं सु॑ह॒व्यां ॥
क उ श्रवत् कतमो यज्ञियानां वन्दारु देवः कतमो जुषाते |
कस्येमां देवीम् अमृतेषु प्रेष्ठां हृदि श्रेषाम सुष्टुतिं सुहव्याम् ||
ká u śravatkatamó yajñíyānām vandā́ru deváḥ katamó juṣāte ǀ
kásyemā́m devī́mamṛ́teṣu préṣṭhām hṛdí śreṣāma suṣṭutím suhavyā́m ǁ
ka u śravat katamo yajñiyānāṃ vandāru devaḥ katamo juṣāte |
kasyemāṃ devīm amṛteṣu preṣṭhāṃ hṛdi śreṣāma suṣṭutiṃ suhavyām ||
Padapāṭha
कः । ऊं॒ इति॑ । श्र॒व॒त् । क॒त॒मः । य॒ज्ञिया॑नाम् । व॒न्दारु॑ । दे॒वः । क॒त॒मः । जु॒षा॒ते॒ ।
कस्य॑ । इ॒माम् । दे॒वीम् । अ॒मृते॑षु । प्रेष्ठा॑म् । हृ॒दि । श्रे॒षा॒म॒ । सु॒ऽस्तु॒तिम् । सु॒ऽह॒व्याम् ॥
कः । ऊं इति । श्रवत् । कतमः । यज्ञियानाम् । वन्दारु । देवः । कतमः । जुषाते ।
कस्य । इमाम् । देवीम् । अमृतेषु । प्रेष्ठाम् । हृदि । श्रेषाम । सुऽस्तुतिम् । सुऽहव्याम् ॥
káḥ ǀ ūṃ íti ǀ śravat ǀ katamáḥ ǀ yajñíyānām ǀ vandā́ru ǀ deváḥ ǀ katamáḥ ǀ juṣāte ǀ
kásya ǀ imā́m ǀ devī́m ǀ amṛ́teṣu ǀ préṣṭhām ǀ hṛdí ǀ śreṣāma ǀ su-stutím ǀ su-havyā́m ǁ
kaḥ ǀ ūṃ iti ǀ śravat ǀ katamaḥ ǀ yajñiyānām ǀ vandāru ǀ devaḥ ǀ katamaḥ ǀ juṣāte ǀ
kasya ǀ imām ǀ devīm ǀ amṛteṣu ǀ preṣṭhām ǀ hṛdi ǀ śreṣāma ǀ su-stutim ǀ su-havyām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.043.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.7.19.01
- Maṇḍala · Anuvāka · Ṛk
- 04.04.091
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Ajamīḷha Sauhotra; Purumīḷha Sauhotra
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.