Ṛk 4.43.3
Saṃhitā
म॒क्षू हि ष्मा॒ गच्छ॑थ॒ ईव॑तो॒ द्यूनिंद्रो॒ न श॒क्तिं परि॑तक्म्यायां ।
दि॒व आजा॑ता दि॒व्या सु॑प॒र्णा कया॒ शची॑नां भवथः॒ शचि॑ष्ठा ॥
मक्षू हि ष्मा गच्छथ ईवतो द्यून् इन्द्रो न शक्तिम् परितक्म्यायाम् |
दिव आजाता दिव्या सुपर्णा कया शचीनाम् भवथः शचिष्ठा ||
makṣū́ hí ṣmā gácchatha ī́vato dyū́níndro ná śaktím páritakmyāyām ǀ
divá ā́jātā divyā́ suparṇā́ káyā śácīnām bhavathaḥ śáciṣṭhā ǁ
makṣū hi ṣmā gacchatha īvato dyūn indro na śaktim paritakmyāyām |
diva ājātā divyā suparṇā kayā śacīnām bhavathaḥ śaciṣṭhā ||
Padapāṭha
म॒क्षु । हि । स्म॒ । गच्छ॑थः । ईव॑तः । द्यून् । इन्द्रः॑ । न । श॒क्तिम् । परि॑ऽतक्म्यायाम् ।
दि॒वः । आऽजा॑ता । दि॒व्या । सु॒ऽप॒र्णा । कया॑ । शची॑नाम् । भ॒व॒थः॒ । शचि॑ष्ठा ॥
मक्षु । हि । स्म । गच्छथः । ईवतः । द्यून् । इन्द्रः । न । शक्तिम् । परिऽतक्म्यायाम् ।
दिवः । आऽजाता । दिव्या । सुऽपर्णा । कया । शचीनाम् । भवथः । शचिष्ठा ॥
makṣú ǀ hí ǀ sma ǀ gácchathaḥ ǀ ī́vataḥ ǀ dyū́n ǀ índraḥ ǀ ná ǀ śaktím ǀ pári-takmyāyām ǀ
diváḥ ǀ ā́-jātā ǀ divyā́ ǀ su-parṇā́ ǀ káyā ǀ śácīnām ǀ bhavathaḥ ǀ śáciṣṭhā ǁ
makṣu ǀ hi ǀ sma ǀ gacchathaḥ ǀ īvataḥ ǀ dyūn ǀ indraḥ ǀ na ǀ śaktim ǀ pari-takmyāyām ǀ
divaḥ ǀ ā-jātā ǀ divyā ǀ su-parṇā ǀ kayā ǀ śacīnām ǀ bhavathaḥ ǀ śaciṣṭhā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.043.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.7.19.03
- Maṇḍala · Anuvāka · Ṛk
- 04.04.093
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Ajamīḷha Sauhotra; Purumīḷha Sauhotra
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.