Ṛgveda · Maṇḍala 4 · Sūkta 43

Ṛk 4.43.7

Aśvins · Ajamīḷha Sauhotra; Purumīḷha Sauhotra

The whole sūkta Link

Saṃhitā

इ॒हेह॒ यद्वां॑ सम॒ना प॑पृ॒क्षे सेयम॒स्मे सु॑म॒तिर्वा॑जरत्ना ।
उ॒रु॒ष्यतं॑ जरि॒तारं॑ यु॒वं ह॑ श्रि॒तः कामो॑ नासत्या युव॒द्रिक् ॥

इहेह यद् वां समना पपृक्षे सेयम् अस्मे सुमतिर् वाजरत्ना |
उरुष्यतं जरितारं युवं ह श्रितः कामो नासत्या युवद्रिक् ||

ihéha yádvām samanā́ papṛkṣé séyámasmé sumatírvājaratnā ǀ
uruṣyátam jaritā́ram yuvám ha śritáḥ kā́mo nāsatyā yuvadrík ǁ

iheha yad vāṃ samanā papṛkṣe seyam asme sumatir vājaratnā |
uruṣyataṃ jaritāraṃ yuvaṃ ha śritaḥ kāmo nāsatyā yuvadrik ||

Padapāṭha

इ॒हऽइ॑ह । यत् । वा॒म् । स॒म॒ना । प॒पृ॒क्षे । सा । इ॒यम् । अ॒स्मे इति॑ । सु॒ऽम॒तिः । वा॒ज॒ऽर॒त्ना॒ ।
उ॒रु॒ष्यत॑म् । ज॒रि॒तार॑म् । यु॒वम् । ह॒ । श्रि॒तः । कामः॑ । ना॒स॒त्या॒ । यु॒व॒द्रिक् ॥

इहऽइह । यत् । वाम् । समना । पपृक्षे । सा । इयम् । अस्मे इति । सुऽमतिः । वाजऽरत्ना ।
उरुष्यतम् । जरितारम् । युवम् । ह । श्रितः । कामः । नासत्या । युवद्रिक् ॥

ihá-iha ǀ yát ǀ vām ǀ samanā́ ǀ papṛkṣé ǀ sā́ ǀ iyám ǀ asmé íti ǀ su-matíḥ ǀ vāja-ratnā ǀ
uruṣyátam ǀ jaritā́ram ǀ yuvám ǀ ha ǀ śritáḥ ǀ kā́maḥ ǀ nāsatyā ǀ yuvadrík ǁ

iha-iha ǀ yat ǀ vām ǀ samanā ǀ papṛkṣe ǀ sā ǀ iyam ǀ asme iti ǀ su-matiḥ ǀ vāja-ratnā ǀ
uruṣyatam ǀ jaritāram ǀ yuvam ǀ ha ǀ śritaḥ ǀ kāmaḥ ǀ nāsatyā ǀ yuvadrik ǁ

References

Maṇḍala · Sūkta · Ṛk
04.043.07
Aṣṭaka · Adhyāya · Varga · Ṛk
3.7.19.07
Maṇḍala · Anuvāka · Ṛk
04.04.097
Devatā देवता
Aśvins
Ṛṣi ऋषि
Ajamīḷha Sauhotra; Purumīḷha Sauhotra
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 4.43.7

Interpretations

Sāyaṇa

हे अश्विनौ यद्यस्मात् । यथा वा सुमत्या । इहेहास्मिन्नेव यज्ञे सुमना समानमनस्कौ । सदृशावित्यर्थः । तौ वां युवां सुमत्या पपृक्षे । स्तुत्या संयोजयामि । सेयमिदानीं क्रियमाणा सुमतिः शोभनस्तुतिरस्मे अस्माकमेव फलवती भवत्विति शेशः । हे वाजरत्ना रमणीयान्नौ । अन्नं वै वाजः । शत. ब्रा. ९-३-४-१ । इति श्रुतेः । युवं युवां जरितारं गरितारं स्तोतारं मामुरुष्यतं । रक्षतम् । हे नासत्याश्विनौ कामोऽस्मदीयो युवद्रिक् ह युवामेव गच्छन् श्रितः प्राप्तः ॥ ७ ॥